________________
: ( २०४ )
किषोsन्तस्य ये प्रत्ययेऽय् निपात्यते । क्रयाय चेत्प्रसारितोऽर्थः । क्रय्यो गौः । क्रयार्थ इति किम् ? क्रेयं ते धान्यं न चास्ति प्रसारितम् ॥१॥
धातूनामनेकार्थत्वात्प्रसारितेऽर्थेत्र क्रीधातुः । क्रय्यो गौरिति = जनाः क्रीणन्तु इति विचारेण हट्टे चत्वरे वा प्रसारिता गौरित्यर्थः ||१||
सस्तः स |४ | ३ |२|
धातोः सन्तस्याऽशिति सादौ प्रत्यये विषयभूते तः स्यात् । वत्स्यति । सः इति किम् ? यक्षीष्ट । सीति किम् ? वसिषीष्ट । ॥ ६२ ॥
विषयसत्तमीविज्ञानात् अवात्ताम्, अवात्त इत्यत्त्र प्रागेव सस्य तः । पश्चात्, सिच्, सिचो लुच्यपि वृद्धिर्भवति । ' घुड्हस्वा० | ४ | ३ |७० | सूत्रे बंधिकारे लुग्ग्रहणं सिचो लुक्यपि स्थानित्वेन तत्कार्यप्रतिपत्त्यर्थत्वात् । ननु सिचो लुच्यपि स्थानित्वात् तो भविष्यति इति न च वाच्यम्, यतः सकारे तकार उक्तः, सस्य च वर्णविधित्वात्, वर्णविधौ च स्थानिवद्भावाभावात्, वर्णविधौ स्वरादेशस्य स्थानित्वं भवति न तु व्यञ्जनादेशस्य ॥। ६२ ।।
दीय् दीङ: क्ङिति स्वरे | ४ | ३ | ३ |
दीङ: क्ङिति अशिति स्वरे दीय् स्यात् । उपदिदीयते । क्ङितीति किम् ? उपदानम् । स्वर इति किम् ? उयदेदीयते ॥ ६३ ॥
दीच क्षये । परोक्षायामिति सिद्धे क्ङिति स्वरे इत्युत्तरार्थम् । दीङो ङित्करणं यङ्लुब्निवृत्त्यर्थम् । उपदेदीयते - अत्र यङ् ॥६३॥
इत्पुसि चातो लुक् | ४ | ३ |६४ ॥