________________
( २०३ )
अधीयानं प्रयुङ्क्ते इति 'प्रयोक्तृ० ।३।४।२०। सूत्रात्, णिग्, ‘णौ क्रीजीङः ।४।२।१०। सूत्रादिकारस्य आकारः, अतिरीव्ली०।४।२।२१। सूत्रात् पोन्तः इति । अत्र आप् लाक्षणिकः । 'आप्लण लम्भने इत्यस्यापीच्छन्त्यन्ये ।।८७॥
मेडो वा मित् ।४।३।८८
मेङो यपि मिद वा स्यात् । अपमित्य, अपमाय ॥८॥
अत्र मिरादेशेपि 'ह्रस्वस्य तः०।४।४।११३। सूत्रात् तान्तः सिध्यति,लाघवार्थ तु मिदादेशः । अपमातु याचते इति 'निमील्या० ।५।४।४६। सूत्रेण क्त्वाप्रत्ययः । मेङ् प्रतिदाने इति मेङ् धातु ॥८॥
क्षेः क्षीः ।४।३।८। क्षेर्यपि क्षीः स्यात् । प्रक्षीय ॥८६॥ क्षि क्षये स्वादिः । निरनुबन्धनिर्देशात् क्षिश् हिमायामित्येतस्य ग्रहणं न भवति, पूर्वाचार्यप्रसिद्धानुबन्धग्रहणाच्च क्षित्, निवासे इत्यस्य ग्रहणम् ।।८।।
क्षय्यजय्यौ शक्तौ ।४।३।६।। क्षिज्योन्तस्य शक्तौ गम्यायां ये प्रत्ययेऽय् निपात्यये । क्षय्यो व्याधिः, जय्यः शत्रुः । शक्ताविति किम् ? क्षेयं पापम्, जेयं मनः ॥६० क्षेतु शक्यः क्षय्यो व्याधिः । जेतुं शक्यः जय्यः शत्र : । 'य एच्चातः ।५।१।२८।, शक्तार्हे कृत्याश्च ।५।४।३५। इति । अहँ तु क्षेयम्, जेयम्, ॥६०॥
क्रय्यः क्रयार्थे ।४।३।६१॥