SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ( २०२ ) एक णिलोपापेक्षयेदमुक्तम् ।।८४॥ आमन्ताल्वाय्येत्नावय ।४।३।८५॥ एषु परेषु णेरय स्यात् । कारयाञ्चकार, गण्डयन्तः, स्पृहयालुः, महयाय्यः, स्तनयित्नुः ॥८॥ लुचोऽपवादः । गडु वदनैकदेशे 'उदितः स्वरान्नोन्त: ।४।४।६८। सूत्रात् नोन्तः । गण्डयतात् इत्याशास्यमानः इति वाक्ये 'तृ जिभूवदि० । उणा० २२१ सूत्रेण अन्तप्रत्ययः । स्पृहयतीत्येवं शीलः ‘शीङ्-श्रद्धा० ।५।२॥३७॥ सूत्रादालुः । महण् पूजायायाम् (अदन्तो धातुः) मह्यन्ते देवता गुरवः च अस्मिन् इति 'श्रुदक्षिगृहि० उणा० ।३७३। सूत्रेण आय्यप्रत्ययः । स्तन शब्दे, णिग्, हृषिपुणि० उ० ॥७६७। सूत्रेण इत्नुप्रत्ययः ५८५।। .. लघोर्यपि ।४।३।८६॥ लघोः परस्य र्यप्यय स्यात् । प्रशमय्य । लघोरिति किम् ? प्रतिपाद्य ॥८६॥ वचनसामर्थ्यादेकेन वर्णन व्यवधानमाश्रीयते न तु भूतपूर्वन्यायः, अत इति अकरणात् । अये भाव: चुराद्यन्तेषु यद्यपि अनन्तरमकारो भूतपूर्वगत्या सम्भवति तथा सति 'अतो यपि' इत्येव सूत्रकरणं शोभनम् अत एवलघोरिति विधानसामर्थ्यादेकेन वर्णन व्यवधानमाश्रीयते ।८६॥ वाऽऽप्नोः ।४।३।८७॥ आप्नोः परस्य र्यप्यय वा स्यात् । प्रापय्य, प्राप्य । आप्नोरिति किम् ? अध्याप्य ॥७॥ श्न निर्देशात् इङादेशस्य न भवति अध्याप्येति । इङ अध्ययने अधिपूर्वः
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy