SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ( २०१ ) • लुगपवादः क्यलुग विज्ञायेत एवं पूर्वत्रापि । अकाररहितस्य क्यस्य लुचः फलमिदं ज्ञातव्यम्-अवध्वंसमिच्छतीति क्यनि क्तप्रत्यये अवघ्वंसित इत्यत्र 'अतः ।४।३।२। सूत्रादकारलोपस्य स्थानिवद्भवात् 'नो व्यञ्जनस्या० ।४।२।४५। सूत्रात्, नस्य न लोपः । सस्वरस्य तु क्यनो लोपे स्वरव्यञ्जनविधित्वात् समुदायलोपात् 'स्वरस्य परे०७।४।११०। सूत्रात्स्थानिवद्भावाभावात् नस्य लुक् स्यादेव ॥१॥ अतः।४।३।१२। अदन्ताद् धातोबिहितेऽशिति प्रत्यये धातोरतो ल क स्यात् । कथयति । विहितविशेषणं किम् ? गतः ॥१२॥ 'कथण वाक्यप्रबन्धे' अदन्तो धातुः ॥२॥ णेरनिटि ।४।३।८३। . अनिट्यशिति प्रत्यये फलक स्यात् । अततक्षत, चेतनः । अनिटीति किम् ? कारयिता ॥३॥ अनिटीत्यत्र विषयसप्तम्यपि तेन चेतयते इत्येवं शीलः चेतनः इत्यत्र प्रागेव, गेलोपे 'इङितो व्यञ्जनाद्यन्तात्' ।५।२।४४। सूत्रेण अनः सिद्धः अन्यथाऽनेक· स्वरत्वात् चेतेः परो निन्दहिंसक्लिश० ।५।२।६८। सूत्रेण णकः स्यात् ।।३।। सेटक्तयोः ।४।३।८४। सेटोः क्तयोः परयोर्णलक स्यात् । कारितः, गणितवान् ॥४॥ सेडिति किमर्थम् ? इटि कृते लोपो यथा स्यात् । शाकितः, शाकितवान् । अन्यथेह ‘एकस्वरादनुस्वारेतः ।४।४।५६ सूत्रात् निषेधात् इड् न स्यात् । न च एकस्वराद् विहिताभावादेव इडिनषेधो न भविष्यतीति वाच्यं विषय
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy