________________
( २०० )
रुश्च । अचकास्त्वम्, अचकात्त्वम् । अभिनस्त्वम् । अरुणस्त्वम्। अरुणत्त्वम् ॥७६ । पूर्वसूत्रे मस्तनीदिः गृहीतः तत्साहचर्यात् अर्थात् तत्प्रत्यासत्तेः अत्र सूत्रेपि सिः ह्यस्तनीसम्बन्ध्येव गृह्यते तेन 'भिनत्सि' इत्यत्र लुग् न भवति । रोरुवित्करणमुत्त्वादिकार्यम् यथा स्यादित्येवमर्थम् तेन 'अभिनोऽत्र, अरुणोऽत्र' इत्यत्र 'अतोऽति रोरुः ।।१३।२०। सत्रेण उत्वं सिद्धम् 'उत्त्वा- . दिकार्ये' आदिशब्दात् ‘रोय:' ।१।३।२६। इत्यादि कार्य ग्राह्यम् ।।७।।
योऽशिति ।४।३।८०॥ धातोयंजनान्तात्परस्य योऽशिति प्रत्यये लुक् स्वात् । जङ्गमिता । व्यञ्जनादित्येव-लोलयिता । अशितीति किम् ? बेभिद्यते ॥५०॥ अनेन सूत्रेण 'य' इति स्वरहीनो लुप्यते, न तु सस्वरो यकारः । यदि सस्वरस्य यकारस्य लुक् स्यात्, तदा जङ्गमितः' इत्यादी 'गमहन० ।४।२।४४। सूत्रादुपान्त्यलोपः स्यात् । स्थिते तु अस्य व्यवधायकत्वम् । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति, तन्मतसंग्रहार्थं व्यञ्जनान्ताद्धातोविहितस्येति विहितविशेषणं कार्यम् । 'किङति यि शय् ।४।३।१०५। सूत्रेण शय आदेशः ।।८०।।
क्यो वा ।४।३।८१ धातोर्यञ्जनात्परस्य क्योऽशिति प्रत्यये लु ग्वा स्यात् । समिघिष्यति, समिध्यिष्यति । दृषदिष्यते, दृषधिष्यते ॥१॥
'क्यो वा' इति सामान्यनिर्देशात् क्यन्क्यङोर्ग्रहणम्, क्यक्षस्तु व्यञ्जनान्तात्प्राप्तिरेव नास्ति । समिधमिच्छतीति क्यन् । दृषदिवाचरतीति क्यङ् । क्य इति ब्यञ्जनात्षष्ठी अतो लुकि कृते लुगा । अन्यथा हि अतो