________________
[ १६६ ]
अशित्यस्सन् कणकार्नाटि | ४ | ३ |७७ |
सादिसन्नादिदर्जे अशिति विषये दरिद्रो लुग् स्यात् । दुर्दरिद्रम्, • अशितीति किम् ? दरिद्राति, सन्नादिवर्जनं किम् ? दिदरिद्रासति, दरिद्रायको याति, दरिद्रायकः, दरिद्राणम् ॥७७॥
विषयसप्तमीविज्ञानात् पूर्वमेवाकारलोपे दुर्दरिद्रमित्यत्र 'शासू-युधिदृशि० | ५|३ | ४१| सूत्रादाकारान्मलक्षणोऽनो न भवति । 'इवृध० |४|४ |४७ सूत्रेण दरिद्रो वेदत्वात् इटि सति “इटेत्पुसि० | ४ | ३ | ६४ | सूत्रादाल्लुकि दिदरिद्रिषतीति भवति । इदुभावेऽनेन लुक् स्यादतः सन्वर्जनम् । ननु सादिः सन्नितिविशेषणेन किम् इट्सत्त्वे तु 'इडेत्पुसि० | ४ | ३६ | सूत्रं प्रवर्तते इति चेन्न सादिसन्निति विशेषणाभावे विशिष्टकथनत्वेनानेन सेटि सत्यपि आकारलोपनिषेधः स्यात् ॥७७॥
व्यञ्जनाद्द: सश्च दः | ४ | ३ | ७८ ॥
धातोव्यञ्जनात्परस्य लुक् स्यात् यथासम्भवं धातो सो दश्च । अचकात्, अजागः, अबिभः, अन्वशात् । व्यञ्जनादिति किम् ? अयात् ॥ ७८ ॥
अचकादित्यादिषु क्रमेण चकास्, जागृ, भृ, शास् धातवः । अत्र व्यञ्जनादिति भणनान् दिः ह्यस्तन्या एव संभवति । धातोरित्येव - अभैत्सीत् । अत्र इतः परादित्वेन सेतोऽपि देर्लुक् प्राप्नोति इति प्रतिषेधः । अत्र सिचः परो दिः, न धातोः परः इति न लुक् ॥ ७८ ॥
से: स्द्धां च रुर्वा | ४|३|७६ ।
व्यञ्जनान्ताद् धातोः परस्य सेलुक् स्यात् यथासम्भवं सदधां च