________________
( १९८
)
अधुक्षत, अदिग्ध, अधिक्षत अलोढाः, अलिक्षथाः, । न्यगुह्वहि, न्यधुक्षावहि । दन्त्य इति किम् ? अधुक्षामहि ॥७४॥ त, थास् ध्वम्, वहि-एते प्रत्यया दन्त्या उच्यन्ते, 'लुवर्णतर्गलसा दन्त्याः, वो दन्त्योष्ठय इति न्यायात् । अधुक्षतेत्यादिसर्वोदाहरणेषु 'हशिटोनाम्यु० ॥३४॥५५॥ सूत्रात्सक, 'दुहदिह० ।४।३।७४। सूत्राद् वा सको लुग्, 'भ्वादे-. .
दिर्घः' ।२।१।८३॥ सूत्रात् दुहदिहयोःहस्य घः लिहगुहयोः हस्य हो धुट. ।२।१२। सूत्रात् ढः, सकि सति 'गडदबादेः० ।२।१।७७॥ सूत्रात् दस्य धः, गस्य घः, सर्वत्र प्रत्ययतथोर्धकारः, 'तवर्गस्य० ।१।३।६०। सूत्रात् धस्य ढः, 'ढस्तड्ढे ।१।३।४२। सूत्रात् ढलोपः, उपान्त्यस्य दीर्घः, 'अघोषे प्रथमोऽ. ।१।३।५०।सूत्रात् घस्य क्, 'नाम्यन्तस्था० ।२।३।१५। सूत्रात् सस्य षकारः। . अधुक्षामहि-मकारो न दन्त्यः, अपि तु ओष्ठ्यः ।।७४।।
स्वरेतः ।४।३७५॥
सकोऽस्य स्वरादौ प्रत्यये लुक् स्यात् । अधुक्षाताम् ।।७।। अधुलाताम्-सकोऽकारलोपात् 'आतामाते० ।४।२।१२१। सूत्रादित्वम् अवर्णस्ये०।१।२।६। सूत्रादेत्वं च न भवति ॥७५।।
दरिद्रोऽद्यतन्यां वा ।४।३।७६। दरिद्रोऽद्यतन्यां विषये लुग्वा स्यात् । अदरिद्रीत्, अदरिद्रासीत् ॥७६॥ अदरिद्रीत्-दरिद्रा, अद्यतनीदि, सिच, ईत्, विषयव्याख्यानात् ‘आदेशादागमो बलवानिति न्यायात् पूर्व 'यमिरमि' ।४।४।१६। सूत्रेत्र इट् सोऽन्तश्च न भवति इति हेतोः पूर्व विकल्पेन दरिद्र आकार लोपः पक्षे इट् सोन्तश्च, 'इट ईति ।४।३।७१। सूत्रात् सिज्लोपः ॥७६॥