________________
[ १६७ ]
सोधि वा ।४।३।७२।
धातोर्धादौ प्रत्यये सो लुग्वा स्यात् । चकःधि, चकाद्धि । अलविध्वम् अलविदवम् ॥७२॥ सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थं तेन प्रकृति-सकारस्यापि ग्रहणम् । चकाद्धि-'हुधुटो हेर्धिः ।४।२।८३ सूत्राद् हेधिः, 'तृती: यस्तृतीय० ।१।३।४६। सूत्रात्, सकारस्य दकारः । अलविढ्वम्-अद्यतनी ध्वम्, सिच, इट, अट। 'सो धिबा ।४।३।७३। सूत्रेण सिच्सकारस्य विकल्पेन लोपे अलविध्वम्, अन्यत्र 'नाम्यन्तस्था० ।३।२।१५ सूत्रात् सस्य षः, 'तृतीयस्तृतीयचतुर्थे । १।३।४६ सूत्रात् षस्य ड:, 'तवर्गस्य श्च० ।१।३।६०। सूत्रात् ध्वमो धस्य ढः । इदं रूपयुग्म 'लूधातोः' ।विकल्पं नेच्छन्त्येके, अन्ये तु सिच नित्यं लोपमिच्छन्ति ॥७२॥
अस्तेः सि हस्वेति ।४।३।७३। अस्तेः सः सादौ प्रत्यये लुरु स्यात् । एति तु सोहः । असि, व्यतिसे, व्यतिहे, भावयामाहे ॥७३॥ असक् भुवि व्यतिपूर्वम्, वर्तमानासे, ‘श्ना ‘श्नास्त्योलुक् ।४।२।६० सूत्रेण अस्तेः सकारस्य लोपः एवमकारसकारयोर्लोपे प्रत्ययमात्रं 'व्यतिसे' इति पदम् । भावयामाहे-'भू, वृद्धिः, भाव, परोक्षा ए, 'धातोरनेक० ।३।४।४६ सत्रेण परीक्षा एस्थाने आम् 'आमन्ताल्वाय्येत्नावय ।४।३।८५। सत्रण णिग् स्थाने अय् ‘धातोरनेक० ।३।४।४६।सूत्रेण आम्परतः 'अस्+ए' इत्यनुपयोगः 'अस्यादेराः परोक्षायाम्' ।४।१।६८। सूत्रात् आकारः। 'अस्तेः सि० । ४।१।६८ सूत्रात् सकारस्य हकारः ।परोक्षाया एकारे नेच्छन्त्यन्ये-भावयामासे " ॥७३॥
दुहदिहलिहगुहो दन्त्यात्मने वा सकः ।४।३।७४। एभ्यः परस्य सको दन्त्यादौ आत्मनेपदे लुग्वा स्यात् । अदुग्ध,