SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ ( १९६ ) सनस्तत्रावा | ४ | ३ | ६६ । सनो लुपि सत्यामा बा स्यात् । असात असत । असाथाः, असथाः । तत्रेति किम् ? असनिष्ट || ६ || 51 असनिष्ट —–'तन्भ्यो वा० ४ ३ ६८ | सूत्रेण विकल्पेन सिचो लुक्, अत्र सिच् न लुप्तः । केदित्वं न मन्यते नित्यमेवान्ये ॥ ६६॥ धुड्हस्वाल्लुगविटस्तथोः । ४ । ३ । ७० । धुङन्ताद् हस्वान्ताच्च धातोः परस्यानिटः सिचस्तादौ यादो च लुक् स्यात् । अभित्त, अभित्याः । अकृत, अकृथाः । अनिट इति किम् ? व्यद्योतिष्ट ॥७०॥ अकृतेति - यदि तनादौ पाठः स्यात्तदा 'तन्भ्यो वा० | ४ | ३ |६८ | सूत्राद्वा लुक् स्यात् । लुबधिकारे लुग्ग्रहणं सिज्लुक्यपि स्थानित्वेन 'तत्कार्यप्रतिपत्त्यर्थम् तेनावात्तामात्यादिषु सिचि विधीयमाना वृद्धिस्तदभावेपि सिद्धा भवति । (अवात्ताम् = वसं निवासे + अद्यतन्याः ताम् 'सरतः सि | ४ ३६२ सूत्रात धातुसकारस्य तः, तत्पश्चात् पूर्वं 'धुह्रस्वा० |४| ३|७० सूत्रात् सिचो लुक्, सिचो लुक्यपि स्थानित्वात् 'व्यञ्जनानामनिटि | ४ | ३ | ४५ सूत्राद् वृद्धिः क्रियते) तथासीति अनुवर्तमाने तथग्रहणं व्याप्त्यर्थम् तेन साहचयं नास्ति । तथोरिति द्विवचनं यथासंख्य परिहारार्थम् ||७० || इट ईति | ४ | ३ |७|| इटः परस्य सिच इति लुक् स्यात् । अलावीत् । इट इति किम् ? अकार्षीत् । इतीति किम् ? अभणिषम् ॥ ७१ ॥ अलावीदित्यत्र - सिचो लुक्यपि स्थानिवद्भावात् 'सिचि ० | ४ | ३ | ४ ४ | सूत्राद् वृद्धिः ॥ ७१ ॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy