________________
( १६४ )
जाज्ञाजनो० ।४।२।१०४। सत्राभ्यामन्तरत्यादित्वाभावात् छः, जादेशश्च स्यात् । परादित्वे तु परभक्तत्वेन त्यादेरानन्तर्यान्न भवति । आत्थ-ब्रू, वर्तमानासिः, ‘ब्रूगः पञ्चानां पञ्चाहश्च ।४।२।११८। सूत्राद् ब्रूस्थाने आह, सिस्थाने थ इति, 'नहाहोर्धतौ ।२।१०८५ सूत्रात् हकारस्य तकारः॥६३॥
यतुरुस्तोर्बहुलम् ।४।३।६४॥ यङ्लुबन्तात् तुरुस्तुभ्यश्च परो व्यञ्नादौ विति ईत् बहुलं परादिः स्यात् कञ्चिद्वा-बोभवीति, बोभीति । कञ्चिन्न-वति । तवीति, तौति । रवीति, रौति । स्तवीति,स्तौति । अद्वेरित्येवतुतोथ, तुष्टोथ ॥६४॥ यङिति सामान्याभिधानेऽपि यङ्लुबन्तस्य ग्रहणम्, यङन्तस्यात्मनेपदिदित्वात् वितो व्यञ्जनादेरसम्भवात् । बहुलं शिष्टप्रयोगानुसारेण । वृत् वर्वति । तुक-वृत्तिहिंसापूरणेषु । रुक् शब्दे । स्तु=स्तवीति, स्तौति।।४३।।
सः सिजस्तेदिस्योः ।४।३॥६५॥
सिजन्ताद्धातोरस्तेश्च सन्तात् परो दिस्योः परयोः परादिरीत स्यात् । अकार्षीत्, अकार्षीः । आसीत्, आसीः । स इति किम् ? अदात् ॥६५॥ आसीत्, आसी:-इत्यत्र ह्यस्तन्या एव दिव् सिव नतु अद्यतन्याः दि सि गृह्यते, अद्यतन्यां सत्याम् “अस्ति-ब्रुवो० ।४।४।१ सूत्राद् भ्वादेशविधानात् । किञ्चास्तेश्च सन्तात्पर इति व्यर्थं स्यात्, सिजद्वारेणैव ईत् स्यात् इति ह्यस्तन्या एव दिव् सिव् गृह्यते। विधानसामर्थ्याच्चं व्यञ्जनाद्दे०।४।३।७८। सत्रात् ईत्सहितस्य देर्न लुक । आसीरित्यत्र ‘आदेशादागमः' इति न्यायात् 'अस्ते सि० ।४।३।७३। सूत्रात्सकारलोपात् प्रागेव इकारागमप्राप्तिः ॥६५॥