________________
( १९३ )
पूर्वेण नित्यं प्राप्ते विकल्पः । यङ्लुबन्तस्यापीच्छन्त्यन्ये ॥६०॥
न दिस्योः ।४।३।६१॥ ऊण्णोदिस्योः परयोरौर्न स्यात् । प्रौर्णोत्, प्रौर्णोः ॥६१॥ पृथग्योगात् पूर्वेण 'उत औ० ।४।३।५९। इति सूत्रेण प्राप्तः प्रतिषिध्यते अन्यथा 'वोर्णोरदिस्योः' इति सूत्रं क्रियेत । दिसाहचर्यात् ह्यस्तन्या एव सिः गृह्यते नेन वर्तमानासिप्रत्यये न भवति। प्रौर्णोत–'स्वरादेस्तासु ४।४।६१। सूत्राद् वृद्धिः ।।६१।। .
तृहः श्नादीत् ।४।३।६२॥ तृहेः श्नात्परो व्यञ्जनादौ विति परे ईत् स्यात् । तृणेढि ॥६२॥ तृहप् हिंसायामू वर्तमानातिन् ‘रुधां स्वरात्० ।३४।८। सूत्रात् धातुमध्ये एनः, अनेन सूत्रेण ईतु, 'हो धुंट्पदान्ते ।२।१।८२। सूत्रात् हस्य ढः, अधरचतुर्थात् ।२।१।७६। सूत्रात्तस्य धः, 'तबर्गस्य०' ।१।३ ६०। सूत्रात् धस्य ढः, ‘ढस्तढ्डे' ।१।३।४२। सूत्रात् पूर्वस्य ढस्य लोपः, 'तृणेढि' इति सिद्धम् । दीर्घनिर्देश उत्तरार्थः ॥६२॥
ब्रतः परादिः ।४।३।६३।
ब्रुव ऊतः व्यञ्जनादौ विति परादिरीत् स्यात् । ब्रवीति । ऊत इति किम् ? आत्थ ॥६३॥ ब्रवीति-ईतः परावयवत्वे शित्त्वात् वचादेशो न भवति । ननु तर्हि परादिः कथं कथितम् 'शित्' इत्येव कथ्यताम् किं गुरूणा स्त्रेण ? इति चेन्न तथा सति 'ब्रवीति' इत्यादौ गुणो न स्यात् । नच 'श्वित्' इति क्रियतामिति वाच्यं तथा सत्यपि 'जंगमीति, जाज्ञति' इत्यादौ 'गमिषमद्यम०।४।२।१०६।