________________
( १६० )
कलिहलिवर्जनान्नाम्नोऽपि तेन पटुमाख्यातवान् अपोपटत् इत्यत्र वृद्धावन्त्यस्वरादिलोपे च सन्वद्भावः सिध्यति । अयं भावः परित्यत्र उकारः, उकारश्च समानः 'व्यन्त्यस्वरादेः ।७।४।४३। सूत्राल्लोपे सन्वडावो न सिध्यति, यदि वृद्धिं कृत्वा लोपे त सिध्यति औकारस्य समानत्वाभावात् । यद्यपि लुचो नित्यत्वात् 'बलवन्नित्यमनित्यात् इति न्यायात्प्रथमं लुक् प्राप्नोति तथापि कलिहलिवर्जनात् प्रथमं वृद्धिः, अन्यया कलिहलिशब्दयोरिकारस्य प्रथमं लुचि वृद्धिप्राप्तिरेव नास्तीति वर्जनं व्यर्थं स्यात् । अपीपटत् इत्यत्र णिच् 'नामिनोऽ० ।४।३।५१। सूत्राद् वृद्धिः औ, 'त्र्यन्त्यस्वरादेः ।।४।४३। सूत्रादन्त्यस्वरादिलोपः, ‘पट्' इति शब्दः, ततोऽद्यतनीदि, 'णिश्रि० ।३।४।५८। सूत्रात् ङप्रत्ययः, द्विवचनम्, अभ्यासेऽसमानलोपित्वात् सन्वद्भावः ‘ल?र्दीघो० ।४।१।६४। सूत्रात् दीर्घः । कलिं हलि वाऽग्रहीत्=अचकलत्, अजहलत् ॥५१॥
जाजिणवि ।४।३॥५२॥
जागुओं णव्येव च णिति वृद्धिः स्यात् । अजागारि, जजगाार । त्रिणवीति किम् ? जागरयति ॥५२॥ . पूर्वेणैव सिद्ध नियमार्थोऽ यं गोगः । जागुत्रौ णवि वृद्धिरेवे अथवा जागुरेव त्रौ णवि च वृद्धिरिति विपरीतनियमस्तु अन्त्यणवो वा णित्त्वविधानात्, 'न जनबध: ।४।३।५४। इत्यादौ त्रिप्रत्यये वृद्धिनिषेधाच्च न भवति ॥५२॥
आत ऐः कृऔ ।४।३॥५३॥ आदन्तस्य धातोणिति कृति नौ च ऐः स्यात् । दायः, दायकः, अदायि । कृदिति किम् ? ददौ ॥५३॥ दायः-अत्र घत्र । दायक:-अत्र णकः । अदायि-भावकर्मणोः' ३।४।६८। सूत्रात् त्रिच् ॥५३।।