________________
( १८६ )
.. वदवजोर्लन्तरन्तयोश्चोपान्त्यस्यास्य परस्मैपदे सेटि सिचि वृद्धिः स्यात् । अवादीत्, अवाजीत , अज्वालीत्, अक्षारीत् ॥४८॥ पूर्वस्यापवादोऽयम् ॥४॥
न शिवजागशसक्षणहम्बेदितः ।४।३।४६।
एषां हमयन्तानामेदितां च परस्मैपदे सेटि सिचि वृद्धिर्न स्यात् । अश्वयीत्, अजागरीत्। अशसीत्। अक्षणीत, अग्रहीत्। अवमीत्, अहयीत्, अकगीत् ॥४९॥ "सिचि परस्मै० ।४।३।४४। सूत्राद् वृद्धो अन्येषां च 'व्यञ्जनादेर्वोपा०' ।४।३।४७। सूत्राद् विकल्पे प्राप्ते वचनम् । अस्मिन् सूत्रे विशेषोऽयम्श्विजाग्रादीनां ,यङ्लुबन्तानामपि वृद्धिप्रतिषेधः, एदितां तु यङो लुपि वृद्धिप्रतिषेधो न भवति ॥४६॥.
ञ्णिति ॥४॥३॥५०॥ निति णिति च परे धातोरुपान्त्यस्यातो वृद्धिः स्यात् । पाकः, पपाच ॥५०॥ 'त्रिति=अकारानुबन्धे, णिति=णकारानुबन्धे ॥५०॥
नामिनोऽकलिहलेः ॥४॥३॥५१॥ नाम्यन्तस्य धातोर्नाम्नो वा कलिहलिवर्जस्य णिति वृद्धिः स्यात् । अचायि, कारकः. अपीपटत् । कलिहलिवर्जनं किम् ? अचकलत् ॥५१॥