________________
( १८५ )
आत्मनेपदतप्रत्यये सति 'स्वरहो वा । ३।४।६० सूत्राद् विकल्पेन त्रिच प्राप्नोति, विकल्पत्वादत्र न त्रिच, कर्मविवक्षायां सत्यां तु नित्यं त्रिच् ॥३६॥
गमो वा ।४।३।३७)
गमेरात्मनेपदविषयौ सिजाशिषौ किवद् वा स्थाताम् । समगत, समगस्त । संगसीष्ट, संगसीष्ट ॥३७॥ समगत-'समो गमच्छि० ।३।३।८४। सूत्रादात्मनेपदम्, 'यमिरमि०. ४।२।५५सूत्रात धातोर्मलुक् ॥३७॥
हनः सिच् ।४।३॥३८॥ हन्तरात्मनेपदविषयः सिच किद्वद् स्यात् । आहत ॥३८॥ हनंक हिंसागत्योरदादिः ॥३८॥
यमः सूचने ।४।३।३६।
सूचनार्था-धमेरात्मनेपदविषयः सिच् किद्ववत् स्यात् । • · उदायत । सूचन इति किम् ? आयस्त रज्जुम ॥३६॥
सूचनं परदोषाविष्करणम् । उदायत-'आङो यमहन:०' ।३।३।८६। सूत्रादात्मनेपदम्, सकर्मकात् ‘समुदाङो यमेः० ।३।३।६८। सूत्रादात्मनेपदम् । आयस्त रज्जुम्-उद्धतवान् कूपादिति ज्ञेयम् ॥३६॥
वा स्वीकृतौ ।४।३।४०।
स्वीकारार्थाद्यमेरात्मनेपदविषयः सिच किद्वद् वा स्यात् ।