________________
( १८३ )
,
प्रतिषेध: सिद्ध इति तदुपादानमनर्थकं स्यात् । क्षुधादीनामप्युपादानाद् 'वौ व्यञ्जनादेः ० ' |४३| २५ | सुत्राद् विकल्पे प्राप्तेऽनेन प्रतिषेधः । उषित्वा -- इत्यत्र 'क्षुधवसस्तेषाम् ||४|४३| सूत्रादिट्, 'घस्वसः' | २|३|३६| सूत्रेण षकारः ॥३१॥
रुदविदमुषग्रहस्वपप्रच्छः सन् च | ४ | ३ | ३२ ॥
एभ्यः क्त्वा सन् च किवद् स्यात् । रुदित्वा रुरुविषति । विदित्वा विविदिषति । मुषित्वा मुमुषिषति । गृहीत्वा, जिघृक्षति । सुप्त्वा सुषुप्सति । पृष्ट्वा, पिपृच्छिषति ॥ ३२ ॥
रुदविदमुषां 'वौ व्यञ्जनादेः सन्चाय्वः | ४ | ३ | २५ | सूत्राद् विकल्पे, ग्रहेतु 'क्वा' | ४ | ३ |२| सूत्रेण प्रतिषेधे सूत्रमिदम् । विद इति विदक् ज्ञाने इत्यस्य ग्रहणं नान्येषाम् तेषां हि अनित्वात् निषेधाभावात् किवदेव क्त्वा । सेडिति निवृत्तम् स्वपिप्रच्छोरसंभवात् । स्वपिप्रच्छोः सन्नर्थमेव, क्त्वा हि किदेव । जिघृक्षति - ' ग्रही उपादाने' ग्रहीतुमिच्छतीति सन्, द्वित्वम् रुदविद० | ४|४|३३| सूत्रेण सन् किवत् ग्रहव्रश्चभ्रस्जप्रच्छः ४|१| ८४ | सूत्रेण वृत्रकारस्य ऋः, 'हो धुट्पदान्ते |२| |२| सूत्रात् हस्य ढः, 'गडदबादे० | २||७७| सूत्राद् गकारस्य घः षढोः कस्सि |२| |६२| सूत्रात् ढस्य क्, 'नाम्यन्तस्था० | २|३|१५| सूत्रेण सस्य षत्वम् । पृष्ट्वा - प्रच्छ्, क्त्वा, किवद्भावात् 'ग्रहवश्चभ्रस्जप्रच्छः |४|१| ८४ | सूत्रात् वृत्, रस्य ऋ, 'अनुनासिके चच्छ्त्रः शूट् | 8191905 | सूत्रेण छकारस्य स्थाने तालव्यशकार : 'यजसृजमृज० | २|१|८७| सूत्रात् शकारस्य पकारः, तवर्गस्य श्चैवर्ग ||३|६० | सूत्रेण प्रत्ययतकारस्य टंकारः । विपृच्छिषति - ऋस्मि० |४| ४ | ८४ | सूत्रादिट् ||३२||
नामिनोऽनिट् | ४ | ३ |३३|
नाम्यन्ताद्धातोरनिट् सन् किद्वत्स्यात् । चिचीषति । अनिडिति किम् ? शिशयिषते ॥ ३३॥