________________
( १८२ )
क्षामार्थान्मृषः सेटौ तक्तवतू किद्वन्न स्याताम् । मर्षितः, मर्षिक्षान्ताविति किम् ? अपमृषितं वाक्यम् ॥२८॥ अपमृषितं वाक्यम्-सासूयं समत्सरं वचनमित्यर्थः। सेडिति भणनात् मृषू सहने च “इत्यस्य तु 'वेटोऽपतः ।४।४।६२ सूत्रादनिटत्वात् ग्रहणमेव न भवति ॥२८॥
-
क्त्वा ।४।३।२६॥ धातोः क्त्वा सेट् किद्वन्न स्यात् । देवित्वा । सेडित्येव कृत्या, ॥२८॥
देतित्वेत्यत्र कित्त्वाभावाद् गुणः ॥२९॥
स्कन्दस्यदः ॥४॥३॥३०॥ आभ्यां क्त्वा किद्वन्न स्यात् । स्कन्त्वा, स्यन्त्वा ॥३०॥ अनिडथं वचनम्, सेटि तु पूर्वसूत्रेण स्यन्दित्वेत्येव भवति । स्कन्दै. गतिशोषणयोः, स्यन्दोङ् स्रवणे । केचित्तु प्रस्कद्य, प्रस्यद्यति यपः.कित्त्वमिच्छन्ति, तन्मतसंग्रहार्थं क्त्वेति द्वितकारनिर्देशः, तकारादि: क्त्वेत्यर्थः ॥३०॥
क्षुधक्लिशकुष-गुध-मृड-मृद-वद--वसः ।४।३।३१। एभ्यः क्त्वा सेट् किद्वत्स्यात् । क्षुधित्वा, क्लिशित्वा, कुषित्वा, गुधित्वा, मृडित्वा, मृदित्वा, उदित्वा, उषित्वा ॥३१॥ नेति निवृतम् मृदादीनामुपादानात् अन्यथा एभ्यः ‘वत्त्वा' ४।३।२६i सत्रेण