________________
( १८१ )
'तक्तवतू सेटौ वा किद्वद् स्याताम् । कुचितम्, कोचितमनेन । प्रकुचितः, प्रकोचितः, प्रकुचितवान् । रुदितम्, रोदितममेभिः, प्ररुदितः प्ररोदितः प्ररुदितवान्। प्ररोदितवान् । उतीति किम् ? शिवतितमेभिः । शवों : य इति किम् ? प्रगुधितः । भावारम्भ इति किम् ? रुचितः ॥२६॥ कुचितम्-कुच्यते स्मेति भावे क्तः । प्रकुचितः इत्यादि-प्रकोचितुमारभते स्म आरब्धवान् वेति तक्तवतूंप्रत्ययो । रुचितः-रोचते स्म ॥२६॥
न डीशोपधषिक्ष्विदिस्विदिमिदः ।४।३।२७।
एभ्यः परौ सेटौ तक्तवतू किद्वद् न स्याताम् । डयितः, डयितवान् । शयितः, शयितवान् । पचितः पचितवान् । प्रधर्षित, प्रर्षितवान् । प्रक्ष्वेदितः प्रक्ष्वेदितवान् । प्रस्वेदितः, प्रस्वेदितान् । प्रमोदितः, प्रमेदितवान् । सेटावित्येव-डीनः, डोनवान्
॥२७॥ डीशीपङामनुबन्धनिर्देशो यङलुप्निवृत्त्यर्थः। डीङ् विहायसां गतो, शीक स्वप्ने श्लिषशीङ्० ।५।१६। सूत्रात् क्तः । पूङ् पवने 'पूक्लिशिभ्यो
नवा ।४।४।४५। सूत्रःद् विकल्पेन इट् । त्रिधषाट प्रागल्भ्ये प्रधर्षितुमारन्ध. 'वान् प्रधृष्यते स्मेति वा प्रधर्षितः, प्रर्षितवान् । त्रिविदाङ् मोचने च त्रिविदांचं गात्रप्रक्षरणे ‘षः सोऽष्टय० ।२।३।६८ त्रिमिदाङ् स्नेहने 'आदितः ४।४।७१। सूत्रेण सर्वत्र इट । डोलः, डोनवान-डीङ्च् गती देवादिकः 'मयत्याधोदितः ।४।२।७०। सूत्रेण नकारः। मूलोदाहरणे भ्वादेरेव डयितः, अस्य इडेव । देवादिकस्य डीयश्व्यै०।४।४।६१।सूत्रेण इििनषेधः उक्तोऽस्ति ॥२७॥
मषः क्षान्तौ ।४॥३॥२८॥