________________
( १७६ )
धातोविद्वर्जः शित्प्रत्ययो ङिद्वत् स्यात् । इतः, कोणाति । - अविदिति किम् ? एति । शिविति किम् ? चेषीष्ट ॥२०॥ क्रीणातीत्यत्र श्नाप्रत्ययः ङिवद् ।।२०।।
इन्ध्यसंयोगात्परोक्षा किद्वद् ।४।३।२१। इन्धेरसंयोगान्ताच्च परा अवित्परोक्षा किद्वज् स्यात् । समीधे, निन्युः । इन्ध्यसंयोगादिति किम् ? सस्र से ॥२१॥ ङिवदित्यधिकारे किद्वचनं यजादिवचिस्वपीनां स्वदर्थम् जागत्तैश्च गुणार्थम् । ङित्वे हि य्वृद्गुणौ न स्याताम् । ननु निन्यु' इत्यत्र यत्वे कृते 'नो व्यञ्जनस्यानुदितः ।४।२।४५। सूत्रादुपान्त्यस्य नकारलोपो कथं नेति चेत्सत्यं अन्तरङ्ग नकारलोपे कर्तव्ये बहिरङ्गस्य यत्वस्यासिद्धत्वमथवा यत्वे कृते संयोगान्तो धातुरतः कित्त्वमेव नास्ति ॥२१॥ स्व जेनवा ।४।३।२२।. स्वजे परोक्षा वा किद्वद् स्यात् । सस्वजे, सस्वज्जे ॥२२॥ कित्त्वाल् ‘नो व्यञ्जनस्या० ।४।२।४५। सूत्रादुपान्त्यनकारस्य लुग् सिद्धः । ॥ २२ ॥ जनशो न्युपान्त्ये तादिः क्त्वा ।४।३।२३। जन्तान्नशेश्च न्युपान्त्ये सति तादिः क्त्वा किद्वद् वा स्यात् । रक्त्वा, रङ्क्त्वा । नष्ट वा । नीति किम् ? भुक्त्वा । उपान्त्य इति किम् ? निक्त्वा । तादिरिति किम् ? विभज्य ॥२३॥ नंष्ट्वा-'नशो धुटि' ।४।४।१०६ सूत्रात् नः । निक्त्वा-निज्धातुः नात्र उपान्त्ये नः किन्त्वादौ ॥२२॥
ऋत्तृष-मृश-कृश-वञ्च-लुञ्च-थफः सेट् ।४।३।२४।