________________
( १७८ )
इको वा ॥४॥३॥१६॥
इकः स्वरादावविति शिति य वा स्यात् । अधियन्ति, अधीयन्ति ॥१६॥
इंक् स्मरणे ॥१६॥
कुटादेङिद्वदञ्णित् ।४।३।१७।
कुटादेः परो ब्णिद्वर्जप्रत्ययो डिद्वद् स्यात् । कुटिता, गुता । अणिदिति किम् ? उत्कोटः, उच्चुकोट ॥१७॥ तुदाद्यन्तर्गतः कुटत् कौटिल्ये इत्यारभ्य गुरैतिः उद्यमे इतिपर्यन्तः कुटादिगणः ॥१७॥
विजेरिट ।४।३।१८। विजेरिट द्वित्स्यात् । उद्विजिता । इडिति किम् ?,उद्वेजनम् । ॥ १८ ॥ ओविजैति भयचलनयोः, ओविजप् भयचलनयोः, द्वयो-ग्रहणम् ॥१८॥
वोर्णोः ।४।३।१६।
ऊर्णोरिड् वा ङिद्वत् स्यात् । प्रोणुविता, प्रोर्णविता ॥१६॥ विकल्येन डित्वात्पक्षे गुणः ॥१६॥
शिदवित् ।४।३।२०।