SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ( १७७ ) भुवः सिज्लुपि गुणो न स्यात् । अभूत् । सिज्लुपीति किम? व्यत्यभविष्ट ॥१२॥ तिनिर्देशात् यङो लुपि न प्रतिषेधः । अभूत्-'पिबैति० ।४।३।६६। सूत्रात्सिचो लुप् ॥१२॥ सूतेः पञ्चम्याम् ।४।३।१३। सूतेः पञ्चम्यां गुणो न स्वात् । सुवै ॥१३॥ तिनिर्देशाद् यङ्लुपि गुणो भवत्येव ॥१३॥ द्व्युक्तोपान्त्यस्य शिति स्वरे ।४।३।१४। व्युक्तस्य धातोरुपान्त्यस्य नामिनः स्वरादौ शिति गुणो न स्यात् । नेनिजानि । उपान्त्यस्येति किम् ? जुहवानि । शितीति किम् ? निनेज ॥१४॥ द्वे उक्त यस्य स व्युक्तः सूत्रत्वाद् क्तान्तं न पूर्व निपतति । निजानि'निजां शित्येत्' ।४।१।५८। सूत्राद्वित्वे पूर्वस्यैत् ॥१४॥ 'हिणोरप्विति व्यौ ।४।३।१५॥ होरिणश्च नामिनः स्वरादावपित्य-विति शिति यथासंख्यं व्यौ स्याताम् । जुह्वति, यन्तु । अप्वितीति किम् ? अजुहवुः अयानि ॥१५॥ अयानि-इंण्क् गतौ+आनिप्रत्ययः, वित्त्वात् डिद् नास्ति अतो गुणः । ॥ १५ ॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy