________________
( १७४ )
ऋप्रापणे च वा, णिग्, अतिरी० ।४।२।२१। सूत्रेण पोऽन्तः अनेन प्रकृतसूत्रेण गुणः । नन्यत्र पुग्रहणं कथम् ? 'अत्तिरी० ।४।२।२१। सत्रे पोरागमत्वमपनीय प्रत्ययत्वे कृतो सर्व सिध्यति प्रत्ययत्वे कृते 'नामिनो०।४।३।१। सूत्रेण रेपयतीत्यादावपि गुणः सिध्यति, आगमत्वे तु अर्पयतीत्यत्र ‘लघोरूपान्त्यस्य ।४।३।४ सूत्रंण गुणः सिध्यति परन्तु रेपयतीत्यादौ न सिध्यतीति चेन्मेवम् प्रत्ययत्वे कृते 'अरीरिपद्, अदीदिपदित्यादी उपान्त्यत्वाभावात् 'उपान्त्यस्या० ।४।२।३५॥ सूत्रेण ह्रस्वत्वं न स्यादिति ध्येयम् ॥३॥.
.
लघोरूपान्त्यस्य ॥४॥३॥४॥
धातोरूपान्त्यस्य नामिनो लघोरङिति गुणः स्यात् । भेत्ता । लघोरिति क्रिम् ? ईहते । उपान्त्यस्येति किम् ? भिनत्ति ॥४॥ ननु 'नामिनो गुणो० ।४।३।१॥ सूत्रेणान्त्यविधानसामर्थ्यादनेनोपान्त्यस्यैव भविष्यति किमुपान्त्यस्येत्युपादानेन ? नच 'नामिनो०।४।३।१ सूत्रेणाङ्किति अनेन किति अपि गुणो भवत्येतदर्थः स्यादिति वाच्यं 'जागुः किति ।४।३।६। 'ऋवर्णदृशोऽङि' ।४।३।७। सूत्रयोरारम्भात् । वस्तुतस्तु जागुः कित्येव गणः इति विपरीतनियमाशङ्का निवारणार्थमनामिनो वा गुण: स्यादिति सन्देहनिरासार्थमुपान्त्यग्रहणम् ॥४॥ .
मिदः श्ये ।४।३३॥ मिदेरूपान्त्यस्य श्ये गुणः स्यात् । भेद्यति ॥५॥ 'त्रिमिदाच् स्नेहने' इति दिवादिः ॥५॥
जागुः किति ।४।३।६। जागुः किति गुणः स्यात् जागरितः ॥६॥