SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्याये तृतीयः पादः नामिनो गुणोऽक्ङिति | ४ | ३ |१| नाम्यन्तस्य धातोः क्ङिवर्जे प्रत्यये गुणः स्यात् । चेता । अविङतीति किम् ? युतः ॥१॥ 'आसन्नः' ७|४|१२० । सुवात् चेतेत्यत्र गुण एकारः । ग्लायतीत्यादी ऐकारोपदेशबलान्न गुणः । यद्वा अनवर्णा नामी | १|१| ६ | सूत्रे संज्ञासंज्ञिनो भिन्नवचननिर्देशात् ज्ञापितम् यत्र संज्ञिनः संज्ञाऽधिका तत्रैव नामिसंज्ञेति ग्लायतीत्यादीनामिसंज्ञाभावान्न गुणः । यद्वा गुणः इति सान्वयसंज्ञयं तेन ग्लायतीत्यादी हानिरूप एकारो न भवति, गुणस्योत्कर्षरूपत्वात् ॥१॥ उश्नोः | ४ | ३ |२| धातोरुश्नोः प्रत्यययोरक्ङिति गुणः स्यात् । तनोति । सुनोति ॥२॥ धातोस्तु पूर्वेणोत्तरेण च गुणः ||२|| पुस्पौ | ४ | ३ | ३ | नाम्यन्तस्य धातोः पुसि पौ च गुणः स्यात् । ऐयरुः, अपयति ॥ ३ ॥ ऋक् गतो ह्यस्तनी, द्वित्वम् ऋतो |४|१|३८| सूत्रादभ्यासेऽकारः माहा० |४|१|५८ | सूत्राभ्यासे इः, पूर्वस्यास्वे० |४|१|३७| सूत्रादभ्यासे इय्, 'द्वयुक्त० |४| २|३| सूत्रादनः स्याने पुस्, 'पुस्तौ | ४ | ३ | ३ | इत्यनेन गुणः अर् स्वरादेस्तासु |४|४|३१ | सवादभ्यासे वृद्धि : ऐ:, ऐयरुः । ऋक गतौ
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy