________________
( १७२ )
-
वाध्यते न तु शित्त्वं तेन 'श्नास्त्योर्त्तक ।४।२।६० इति लुग भवत्येव ॥११६॥
आतो गव औः ।४।२।१२०॥ आतः परस्य णव औः स्यात् । पपौ ।११२०॥ नवेति शितीति सम्बद्धं णग्रहणात् शिन्निवृत्तौ नर्वेति निवृत्तं तैनात्र । नित्यमौकारः । ओकारेणैव सिद्ध औकारकरणं ददरिद्रावित्याद्यर्थमन्यथा 'अशित्यस्सन् ० ।४।३।७। सूत्रादाकारलोपे इदं न सिध्येत् । ननु ददरिद्रावित्यत्र तु आमादेशो भविष्यतीति चेत्मत्यमौकारकरणादामादेशस्यानित्यत्वम् ॥१२०॥
आतामाते आथामाथे आदिः ॥४॥२॥१२१॥ आत्परेषामेषामात इ: स्यात् । पचेताम्, पचेते, पचेथाम, पचेथे । आदिति किम् ? मिमाताम् ॥१२१॥ मिमाताम्-पृ.भृमा० ।४।१।५८ सूत्रादिकारः। यः सप्तम्याः ।४।२।१।२२॥ आत्परस्य सप्तम्या याशब्दस्यः स्यात् । पचेत् पचेः॥१२२॥ निर्दिश्यमानस्यैवादेशा भवन्तीति न्यायात् याशब्दस्यादेशाः ॥१२॥
याम्युसोरियमियुसौ ।४।२।१२३। आत्परयोर्याम्युसोर्यथासंख्यमियम्, इयुसौ स्याताम्। पचेयम्, पचेयुः ॥१२३॥ मात्परयोः-अकारात्परयोरित्यर्थः ॥१२३॥
'इति चतुर्थाध्य.ये द्वितीयः पादः"