________________
( १७०
)
धातोविहिते मादौ वादौ चात आ दीर्घः स्यात्। पचामि, पचावः, पचामः ॥११३॥ धातोः प्रत्ययेन सहाभिसम्बन्धः, न अकारेण सहेति प्रत्ययाकारस्याषि दीर्घो भवति । वृत्ती आकारस्य दीर्घत्वेन विशेषणमाकारो दोघं एव स्यादित्येवमर्थन्यथा केचित् 'प्रश्ने च० ७।४।६८। सूत्रेणानन्त्यस्यापि प्लुतत्वमिच्छन्ति इति प्जुतत्वं मा भूदित्येवमर्थम् स्वमते तु अन्त्यस्यैव भवति ॥११३॥
अनतोऽन्तोऽदात्मने ।४।२।११४॥ अनतः परस्यात्मनेपदस्थस्यान्तोऽत् स्यात् । चिन्वते । आत्मनेपद इति किम् ? चिन्वन्ति । अनतं इति किम् ? पचन्ते संविदते ॥११४॥
शोडो रत् ।४।२।११५॥ शोङः परस्यात्मनेपदस्थस्यान्तो रत् स्यात् । शेरते ॥११॥ 'इङितः० ।३।३।२२। सूत्रादात्मनेपदम् ।।११५॥
वेत्तनवा ।४।२।११६॥ वेत्तेः परस्यात्मनेपदस्थस्यान्तो रद् वा स्यात् । संविद्रते ॥११६॥ संविद्रते, संविदते-इत्यत्र 'समो गमृच्छि० ॥३॥३॥८४। सूत्रादात्मनेपदम् । वेत्तेस्तिन्निर्देशः रुधादे विधातोरग्रहणार्थों यङ्लुपि निवृत्त्यर्थश्च ॥११६॥