________________
( १६६ )
-एषां शित्यत्यादौ दीर्घः स्यात् । ष्ठीव, क्लाम, आचान।
आङिति किम् ? चम ॥११०॥ 'ष्ठिव् निरसने' भ्वादेरनेन दीर्घा विधीयते, ष्ठिवूच निरसने इति दिवा. देस्तु 'भ्वादेर्नामिनो० ।२।१६३॥ सूत्रेण विहित एव । ण्ठिक्लमोलकारनिर्देशाद् यङलुपि न भवति । चमेराङपूर्वकस्य ग्रहणात् 'चम' इत्यत न भवति ॥११०।।
शम्सप्तकस्य श्ये ।४।२।१११।
शमादीनां सप्तानां श्ये दीर्घः स्यात्। शाम्य, दाम्य, ताम्य, भ्राम्य, श्राम्य, क्षाम्या माध। श्य इति किम् ? प्रमति । अत्यादादित्येव शंशन्ति ॥१११॥ .
शमू दमूच् उपशमे, तमूच् काङ्क्षायाम्, श्रमूच खेदतपसोः भ्रमूच्, अनवस्थाने, क्षमूच् सहने, मदच् . हर्षे इति शम्सप्तकम् । भ्रमति–'भ्रसूच् अनवस्थाने' धातोः भ्रमतीति रूपमन्यथा द्व यङ्गवैकल्यं स्यात् 'भ्रासभ्लास०।३।४।७३। सूत्रेण वा श्यः । शमादिगणनिर्देशात् ण्ङ्लुपि दीर्घो न भवति श्यस्तु भवत्येव 'भ्रासभ्लास०' ।३।४।७३। इति प्रतिपदोक्तत्वात् तेन जम्भ्रम्यतीति सिध्यति ॥१११॥
.ष्ठिव सिवोऽनटि वा ।४।२।११२॥ ष्ठिन्सिवोरनटि दी? वा स्यात्। निष्ठीवनम्, निष्ठेवनम् । सीवनम्, सेवनम् ॥११२॥ षिवूच् उतो दिवादिः ॥११॥
मव्यस्याः ।४।२।११३॥