________________
( १६८ )
धावृधातुना सिद्ध सरतेवेंगे गम्यमाने सरति इति प्रयोगनिवृत्त्यर्थं सूत्रमिदम् । सप्तरिति तित्निदेशात् यङ्लुपि सरते न धावादेशः ।। १०७ ।।
श्रौति कृवु-धिवु-पा-द्या- घ्मा-स्था-म्ना-दम्-दृश्यतिशदसद: शू-कृ-धि- पिब- जिघ्र-धम-तिष्ठ-मनयच्छ- पश्यच्छं- शीय-सोदम् ।४।२1१०८ |
एषां शित्यत्यादौ यथासंख्तं श्रादयः स्युः । शृणु, कृणु, धिनु, पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ् । शीयते । सीद ॥ १०८ ॥
श्रोत्यत्त्यस्ति निर्देशः कृधिव्शदामामनुबन्धश्च यङ्लुपि 'शू' इत्यादेशनिवृत्त्यर्थः । उक्तं च तिवा शवांनुबन्धेन, निर्दिष्टं यद्गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ् लुपि ।
श्रुट् श्रवणे - श्रौति । कृवुट् हिंसा करणयोः - कृव् । धिवुट् गतौ धिव् । तथा घ्राध्मा - दिभिः साहचर्यात् पा पाने इति भ्वादेरेव ग्रहणम्, तस्य सस्वरः पिबादेशः, स्वरान्तत्वादुपान्त्यलक्षणो गुणी भवति । पें शोषणे इत्यस्य लाक्षणिकत्वान्न ग्रहणम् ||१०८ ||
क्रमो दीर्घः परस्मै ॥ ४२ ॥ १०८
क्रमेः परस्मैपदनिमित्ते शिति दीर्घः स्यात् । अत्यादौ । क्राम, काम्यति । परस्मैपद इति किम् ? आक्रमते सूर्यः ॥ १०६ ॥
परस्मैपदनिमित्तविज्ञानात् हेतु क्यपि दीर्घः । क्राम्यति - 'भ्रासभ्लास ० | ३ | ४|७३ | सूत्रेण विकल्पेन श्यप्रत्ययः । आक्रमते - ' आङो ज्योतिरुद्गमे । ३।३।५२। सूत्रादात्मनेपदम् ।। १०६ ।।
विक्लवाचमः । ४ । २ । ११० ।