SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ( १६७ ) जा ज्ञानोत्यादौ । ४।२।१०४ | ज्ञाजनोः शिति जाः स्यात् न त्वनन्तरे तिवादौ । जानाति, जायते । अत्यादाविति किम् ? जाज्ञाति, जञ्जन्ति ॥ १०४ ॥ अत्यादौ – यदि धातुतिवादीनां मध्ये श्नाश्यादिप्रत्यया भवन्ति तदा ज्ञाजन्धात्वोर्जादेशो भवति । जाज्ञाति, जञ्जन्ति - यङ्लुपि रूपम्, श्नाश्यादिप्रत्ययेनाध्यवधानात् न जादेशः ॥ १०४ ॥ वादे स्वः ।४।२।१०५। प्यादेः शित्यत्यादौ ह्रस्वः स्यात् । पुनाति लुनाति । प्वादेरिति किम् ? व्रीणाति ॥ १०५ ॥ क्रयादिषु प्यादिगणः पठति: 'पूग्श् पवने इत्यारभ्य ऋ श् गतौ इति यावत् । जानातीत्यत्र विधानसामर्थ्यान्न ह्रस्वः || १०५ ।। गमिषद्यमश्छः | ४ | २।१०६ । रषां शित्यत्यादौ छः स्यात् । गच्छति इच्छति, यच्छति, आयच्छते । अत्यादाविति किम् ? जङ्गन्ति ॥ १०६ ॥ 'गमिषत्' इत्यता निर्देशः 'इषच् गतौ इति दिवादेः इषश् आमीक्ष्ये' इति क्रयादेनिवृत्त्यर्थः ॥१०६॥ वेगे सत्तेर्धाव | ४ | २|१०७ ॥ सतेंवेंगे गम्ये शिति धाव् स्यात् । अत्यादौ । धावति, वेग इति किम् ? धर्ममनुसरति ॥ १०७ ॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy