________________
( १६६ )
व्युक्तस्येत्यनुवृत्तिर्न स्यात्तदा द्विर्वचनात्प्रागेवेत्वं स्यात् । प्राक् तु स्वरे स्वरविधेरित्यपि न, व्यञ्जननिमित्तत्वात् ॥१००॥
आ च हो | ४ | २|१०||
हाको हौ आत् इश्च वा स्यात् । जहाहि, जहिहि, जहीहि ।
॥ १०१ ॥
अवितीति निवृत्तम्, वितोऽसम्भवाद्, हिविभक्तिमेवाश्रित्य सूत्रप्रवृत्तेः । शिति इत्यनुवर्तते । चेत्यकृते तक्रकौण्डिन्यन्यायेन इर्न स्यात् ॥ १०१ ॥
यि
लुक् ।४।२।१०२ ॥
irat शिति हाक आ लुक् स्यात् । जह्यात् ॥ १०२ ॥
नवेति निवृत्तम् । इकाराधिकारे नवाधिकृतः इह लुग्विधीयते अतो निवृत्तः । लुञ्चनं 'क्रुत्संपदादिभ्यः | ५ | ३ | ११४ | सूत्रात्क्विपि स्वयुक्त इति स्त्रीत्वम् । लवनं 'द्रागादयः ( ८७० उणादि ० ) इति लुक् पुंस्त्वम्, लुम्पनं 'क्रुत्संपदा० | ५ | ३ | १४ | सूत्रात्क्विपि स्त्रीत्वम् । 'गृपृदुवि०' ६४३ ( उणादि ० ) इति क्विपि पुंस्त्वम् ||१०२ ||
ओतः श्ये ।४।२।१०३।
धातोरोतः श्ये लक् स्यात् । अवद्यति । श्य इति किम् ? गौरिवाचरति गवति ॥ १०३ ॥
दोंच् छेदने - अवद्यति । गवति - ' कतु' : क्विप्० | ३|४|२५ सूत्रेण क्विप्, 'अ प्रयोगीत' | १|१|३७| सूत्र ेण विप्लोपः, तिव् शब्, अवादेशः ॥ १०३ ॥