________________
( १६३ )
सूत्रेण सिजित्युक्ते रद्यतन्या अनः स्थाने विदस्तु ह्यस्तन्याः अनः स्थाने 'अद्यतन्यां तु सिजद्वारा अनः स्थाने पुस् अवेदिषुरिति । “व्युक्तजक्षपञ्चतः" ।४।२।६३। सूत्रे गापि ह्यस्तन्या अनः स्थाने पुस् । अयुरित्यत्र"इडेत्पसि०।४।३।६४। इत्यातो लुक् ।।६१॥
सिज्विदोऽभुवः ।४।२।६२॥ सिच्प्रत्ययाद् विदश्च धातोः परस्य अनः पुस् स्यात् । न चेत् भुवः परः सिच् स्यात् । अकार्षः, अविदुः । अभुव इति किम् ? अभूवन् ॥१२॥ भूवर्जनेन सिच्प्रत्ययो लभ्यते, अन्यथा 'षिचीत् क्षरणे' इत्यस्य ग्रहणं स्यात् । अभुवन्–अत्र पूर्वं गुणः, अब्, पश्चात् 'भुवो वः० ।४।२।४३॥ इत्यूव ।। ६२॥
द्व युक्तजक्षपञ्चतः ।४।२।६३। कृतद्वित्वात् जक्षपञ्चकाच्च परस्य शितोऽवितोऽनः पुस् स्यात् । अजुहवुः। अजक्षुः। अदरिद्रुः। अजागरुः। अचकासुः। अशासुः ॥ ६३ ॥ द्वे उक्त वचने यस्य स व्युक्तः कृतद्विर्वचन इत्यर्थः । पञ्चानां वर्गः पञ्चत् पञ्चद्दशवर्गे वा ।६।४।१७५। सूत्रेण पञ्चत् निपातः, जक्षाणां पञ्चत् जक्षपञ्चत् तस्मात् जक्षपञ्चतः । अहवुः, अजागरुः इत्यत्र 'पुस्पो ।४।३।३। सूत्रण गुणः । जक्षक भक्षहसनयोः, दरिद्राक् दुर्गंतो, जागृक् निद्राक्षये, चकासृक् दीप्तौ, शासूक् अनुशिष्टौ इति जक्षपञ्चकम् ॥६३ ॥
अन्तो नो लुक् ।४।२।६४॥