________________
( १६२ )
भवति । नच “येन नाव्यवधानं तेन व्यवहितेऽपि भवतीत्यपि न्यायोऽस्तीति वाच्यं कुर्यादित्यादाव्यवधानमस्ति । कश्चित्तु कुर्मीत्यपीच्छति तदसंमतम् ॥८॥
अतः शित्युत् ॥४।२।। शित्यविति य उस्तन्निमित्तस्य कृगोऽ त उः स्यात् । कुरु । अवितीत्येव-करोति ॥८॥ उविधानबलात् ‘लघोरुपान्त्यस्प ।४।३।४। सूत्रात्प्राप्तोऽपि गुणो न भवति अन्यथा ओकार एव विधीयेत । उकारनिमित्तत्वेनाकारविज्ञानात् कुर्यादित्यादावुकारलोपेपि भवति ॥८६॥ .
श्नास्त्योलक ।४।२।६० श्नस्य अस्तेश्चातः शित्यविति ल क स्यात् । रूद्धः । स्तः । अत इत्येव-आस्ताम् ॥१०॥ अतः इत्यधिकारो न स्यात्तदा 'षष्ठ्याऽन्त्यस्य ।७।४।१०६। सूत्रात् अस्तेरन्त्यसकारस्यैव लुक स्यात्, श्नस्य च 'प्रत्ययस्य १७।४।१०८। सूत्रात् सर्वस्यापि लुक् स्यात् । अस्तीत्यत्र तिन्निर्देशात् दिवादेरस्यतेन लुक् ।।१०।।
वा द्विषातोऽनः पुस् ।४।२।६१।
द्विष आदन्ताच्च परस्य शितोऽवितोऽनः स्थाने पुस् वा स्यात् । आद्विषुः, आद्विषन् । अयुः । अयान् ॥१॥ पकार: ‘पुस्पौ ।४।३।३। इत्यत्र विशेषणार्थः । ‘वा द्विषातोऽ-नःपुस्' इत्यनेन ह्यस्तन्या अनः स्थाने पुस् क्रियते, 'सिज्विदो भुवः ।४।२।६२।