SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ ( १६१ ) धातोः परो यो दन्तः प्रत्ययः ततः परस्य हेर्लुक् । दीव्य । अत इति किम् ? राध्नुहि । प्रत्ययादिति किम् पापहि ॥ ८५ ॥ पापहि - पयि गतौ, भृशं पयते इति यङ्, द्वित्वम्, बहुलं लुप्' | ३|४|१४| सूत्राद् यङ्लोपः, य्वोः प्वय्व्यञ्जने लुक् | ४|४|१२१। सूत्त्रात् यलोपः ।। ८५ ।। असंयोगादोः । ४ । २८६ | असंयोगात्परो य उस्तदंतात्प्रत्ययात्परस्य हेल 'क् सुनु । असंयोगाविति किम् ? अक्ष्णुहि । उरिति किम् ? क्रीणीहि ॥ ८६ ॥ असंयोगादित्योर्विशेषणात् आप्नुहीत्यत्रापि लोपो न भवति । यदि संयोगाद्य उकारान्तः प्रत्यय इति विशेषणं स्यात्तदाऽत्रापि भवेत् ॥ ८६ ॥ वयविति वा । ४ । २।८७. अस योगात्परो य उस्तदन्तस्य प्रत्ययस्य लुग्वा स्यात् । वमादौ अविति परे । सुन्वः, सुनुव, सुन्मः, सुनुमः । अवितीति दिम् ? सुनोमि । असंयोगादित्येव-तक्ष्णुवः ॥ ८७ ॥ प्रत्ययादिति ओरिति च पञ्चम्यन्तमपि षष्ठ्यन्ततया विपरिणम्यते, अर्थवशाद् विभक्तिविपरिणामः इति न्यायात् । असंयोगादित्योर्विशेषणात् आप्नुवः इत्यत्र न भवति ॥ ८७॥ कृगो यि च |४| २८८ । कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्युः, कुर्वः, कुर्मः ॥ ८८ ॥ कृ. ग्श् हिंसायामित्यस्मात्तु नकारव्यवधानात् उः परो न संभवतीति न
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy