________________
( १६१ )
धातोः परो यो दन्तः प्रत्ययः ततः परस्य हेर्लुक् । दीव्य । अत इति किम् ? राध्नुहि । प्रत्ययादिति किम् पापहि ॥ ८५ ॥ पापहि - पयि गतौ, भृशं पयते इति यङ्, द्वित्वम्, बहुलं लुप्' | ३|४|१४| सूत्राद् यङ्लोपः, य्वोः प्वय्व्यञ्जने लुक् | ४|४|१२१। सूत्त्रात् यलोपः ।। ८५ ।।
असंयोगादोः । ४ । २८६ |
असंयोगात्परो य उस्तदंतात्प्रत्ययात्परस्य हेल 'क् सुनु । असंयोगाविति किम् ? अक्ष्णुहि । उरिति किम् ? क्रीणीहि ॥ ८६ ॥
असंयोगादित्योर्विशेषणात् आप्नुहीत्यत्रापि लोपो न भवति । यदि संयोगाद्य उकारान्तः प्रत्यय इति विशेषणं स्यात्तदाऽत्रापि भवेत् ॥ ८६ ॥
वयविति वा । ४ । २।८७.
अस योगात्परो य उस्तदन्तस्य प्रत्ययस्य लुग्वा स्यात् । वमादौ अविति परे । सुन्वः, सुनुव, सुन्मः, सुनुमः । अवितीति दिम् ? सुनोमि । असंयोगादित्येव-तक्ष्णुवः ॥ ८७ ॥
प्रत्ययादिति ओरिति च पञ्चम्यन्तमपि षष्ठ्यन्ततया विपरिणम्यते, अर्थवशाद् विभक्तिविपरिणामः इति न्यायात् । असंयोगादित्योर्विशेषणात् आप्नुवः इत्यत्र न भवति ॥ ८७॥
कृगो यि च |४| २८८ ।
कृगः परस्योतो यादौ वमि चाविति लुक् स्यात् । कुर्युः, कुर्वः, कुर्मः ॥ ८८ ॥
कृ. ग्श् हिंसायामित्यस्मात्तु नकारव्यवधानात् उः परो न संभवतीति न