________________
( १६० )
पर्यायवाचकस्तदा तु शकलशब्दस्य प्रयोगो न भवति, पर्यायाणां हि योगपद्य न प्रयोगो नेष्यते इति वचनात् ॥६१।।
वित्तं धनप्रतीतम् ।४।२।२। विन्दतेः परस्य क्तस्य नत्वाभावो निपात्यते । धनप्रतीतयोः । पर्यायश्चेत् । वित्तं धनम्। वित्तः प्रतीतः । धनप्रतीतमिति किम् ? .. विन्नः ॥१२॥ विद्लुती लाभे इति तुदादेरेव वित्तं प्रयोग, नान्येषाम् । विद्यते लभ्यते इति वित्तं धनम् । विद्यते-उपलभ्यतेऽसाविति वित्तः प्रतीतः । वेत्तेविदितम् प्रयोगः, विन्तेविन्नं वित्तं च ॥२॥
हुधुटो हेधिः ।४।२।३।। होधु डन्ताच्च परस्य हेधिः स्यात् जुहुधि, विद्धि ॥८३॥ जुहुतात्त्वम् मितात्त्वमित्यत्र नित्यत्वेन प्रकृत्यनपेक्षत्वेनान्तरङ्गत्वाच्च हे: स्थाने तातड्, तस्य तातडो न पुनर्धिभावो हेरिति शब्दाश्रयणात् ।।३।।
शासस्हनः शाधोधिजहि ।४।२।८४
शास्ससहनां हन्तानां यथासंख्यं शाधिएधिजहयः स्युः । शाधि, एधि, जहि ॥१४॥ शास्हन्साहचर्यात् असिति आदादिकस्य गृह्यते । शास्हनोर्यङ्लुप्यपि 'शाधि, जहि' इत्येव प्रयोगः । हनेस्तु यङ्लुपि नेच्छन्त्यन्ये तन्मते जङ्घहि । अस्तेस्तु स्वरादिधातुत्वात् यङ् न भवति ।।८४॥
अत: प्रत्ययाल्लुक ।४।२।८॥