________________
[ १५६ ]
अनुषसाः क्षीबोल्लाघ-कृश-परिश-फुल्लो-संफुल्लाः 10
अनुपसर्गाः क्तान्ता एते निपात्यन्ते । क्षीबः, उल्लाघः, कृशः, परिकृशः, फुल्लः उत्फुल्लः, संफुल्लः । अनुपसर्गा इति किम् । प्रक्षोबितः॥८॥ क्षीबादयः सर्व शब्दाः कप्रत्ययेनाच्प्रत्ययेनापि सिध्यन्ति परन्तु क्षीबितः' इत्यादिरूपप्रतिषेधार्थमेतत्सूत्रं कृतम् । क्षीबुङ् मदे, उत्पूर्वो लाघङ सामर्थ्य, - कृशच तनुत्वे परिपूर्वश्च । एभ्यः परस्य ततकारस्य निपातनाल्लोपः,
अकारस्तिष्ठति इडभावश्च । 'त्रिफला विशरणे' केवलः उत्पूर्वः सम्पूर्वश्च । कलतीति फुल्लः, 'ज्ञानेच्छा० ।५।२।६२ सूत्रेण क्तः अथवा 'गत्यार्थ० ।५।१।११ सत्रेण क्तः, फलितमारब्ध इति 'आरम्भे । ५।१।१०। सूत्रेण वा क्तः, । ति चोपा० । ४।१।५४ सूत्रण उपान्त्याकारस्य उकारः, निपातनात् तकारस्य लकारः इडभावश्च । एवमुत्फुल्ल:, संफुल्ल इत्यपि । यदा भावारम्भयोरविवक्षा तदा 'आदितः । ४।४१७१ सूत्रात् नित्यमिडभावः । यदा तु भावारम्भविवक्षा तदा नवां भावारम्भे ।४।४।७२ सूत्राद् विकल्पेनेट् स्यात् निपातनाच्च नित्यं प्रतिषिध्यते । केचित्तु क्षीबवान् उल्लाघवान् कृशवान्, परिकृशवान्, फुल्लवान्, उत्फुल्लवान्, संफुल्लवान् इति क्तवतावपि रूपमिच्छन्ति तदर्थं तक्तवत्वोस्तशब्दावधि निपातनं द्रष्टव्यम्, एतदर्थमेव बहुक्चनम् । निपातनस्येष्टविषयत्वात् फल निष्पत्ती, फल गतौ इत्येतयोस्तु फलितः, फलितवान ।।८०॥
भित्तं शकलम् ।४।२।८।। भिः परस्य क्तस्य नत्वाभावे निपात्यते । शकलपर्यायश्चेत् । मित्त शकलमित्यर्थः । शकलमिति किम् ? भिन्नम् ॥१॥ सकलम् =खण्डमित्यर्थः । शकलमिति पर्यायनिर्देशात् भिदिक्रियाविवक्षायां शकले विषये भिन्नं शकलमिति भवति, अत्र द्विधाकृतमि त्यर्थः । यदा