SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( १५६ ) - 'ख्याध्यावर्जस्य धातोर्यद्वजनं तस्मात्परा याऽन्तस्था तस्याः परो य आस्तस्मात्परस्य क्तयोस्तो नः स्यात् । स्त्यानः-स्त्यानवान व्यञ्जन इति किम् ? यातः । अन्तस्था इति किम् ? स्नातः । आत इति किम् ? च्युतः । धातोर्व्यञ्जनेति ? निर्यातः । अख्याध्य इति किम् ? ख्यातः, ऽयातः । आतःपरस्येति किम् ? दरिद्वितः ॥७॥ स्त्य संघाते-स्त्यानः । दरिद्रितः-अत्र इटा व्यवधानम् ॥७१॥ पूदिव्यञ्चे शाङ्तानपादाने ।४।२।७२। एभ्यो यथासख्यं नाशाद्यर्थेभ्यः परस्य क्तयोस्तो नः स्यात् । पूना यवा: आधुनः, समक्नौ पक्षौ । नाशाद्यूतानपादान इति ? पूतम् घृतम्। उदक्तं जलम् ॥७२॥ पूना यवाः विनष्टा इत्यर्थः । समक्नौ-पक्षिणः पक्षी सङ्गतावित्यर्थः । अनपादाने इत्यस्य कोऽर्थ ? अञ्चिवाच्या क्रिया यदि अपादान क्रियासाधिका न भवतीत्यर्थः । उदक्त जलम् । अत्र कपःदेः जलं निष्कासितमिति अपादानकारकसाधिका क्रियाऽस्ति ॥७२।। सेर्गासे कर्मकर्तरि ४ारा७३। से: परस्य क्तयोस्तो ग्रासे कर्मकर्तरि नः स्यात् । सिनो ग्रासः स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण ॥७३॥ पिंगट बन्धने, पिंगश् बन्धने द्वयोरपि ग्रहणम् । 'षः सोऽष्टय० ।२।३।६८ इति सः । सिनोति सिनाति वा ग्रासं मैत्र: स एवं विवक्षति नाहं ग्रासं सिनामि सिनोमि स्म, अपि तु सितो ग्रासः स्वयमेव ॥७३॥ ..
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy