________________
( १५१ )
यम्यते स्म =यतः । तनादयो धातुपाठे दर्शिताः। वनतितनाद्योः तिगणनिर्देशात् यङलुपि नान्तलोप ॥५५॥
यपि ।४।२॥५६॥
यम्यादीनां यपि लुक् स्यात् । प्रहत्य, प्रवत्य, प्रतत्य, प्रसत्य ॥५६॥ वा मः ।४।२।५७। इति वचनान्नान्तानामेवायं विधिः । 'अन्तरङ्गानपि विधीन्यबादेशो बाधते इति पूर्वसूत्रेणाप्राप्ते वचनम् ॥५६॥
वा मः ।४।२।५७।
यम्यादीनां मान्तानां यपि वा लग स्यात् । प्रयत्य, प्रयम्य । विरत्य, विरम्य । प्रणत्य, प्रणम्य । आगत्य, आगम्य ॥५७॥ यमू. उपरमे भ्वादिः, रमि क्रीडायाम् भ्वाद्यन्तर्गतो ज्वलादिः, णमं प्रह्वत्वे भ्वादिः, गम्लु गतौ भ्वादिः ॥५७॥
गमा क्वौ ।४।२।५८॥ एषां गमादीनां यथादर्शनं क्वौ क्ङिति लक् स्यात् । जनगत, संयत्, परीतत, सुमत्, सुवत्, ॥८॥ 'गमाम्' इति बहुवचनं प्रयोगानुसरणार्थं तेन गमयमतनमनवनादीनामेव पञ्चानां धातूनामन्तस्य लुग्दर्शितः। अत एव सूत्रे यथादर्शनमित्युक्तम् । यथादर्शनम् बहुलमित्यर्थः । 'यमिरमि०' ४।२।५५। सूत्रोक्तगमादिपाठो नानुसरणीयः ।। जनं गच्छतीति जनगत् । संयमनं-संयत् 'कत्संपदादिभ्यः किवा ।५।३।११४। पतिनोतीति परीतत्, क्विप् । 'गतिकारकस्य