________________
( १४६ )
दंशसञ्जः शवि ।४।२।४६॥ अनयोरुपान्त्यनः शवि लुक् स्यात् । दशति, सजति ॥४६॥ तुदादावपठित्वा अनयो: भ्वादौ पाठः शवर्थः, तेन दशन्ती सजन्तीत्यत्र 'श्यशवः ।२।१।११५। सूत्रेण नित्यमन्तादेशः सिध्यति ॥४८॥
अकधिनोश्च रञ्जः ।४।२॥५०॥ रजेरकटि धिनणि शवि चोपान्त्यनो लुक् स्यात् । रजकः,
रागी, रजति । ५०॥ रजतीति रजकः "नृत्खनञ्जः० ।५।१॥६५॥ सूत्रेण अकट् । रजतीत्येवं शीलो रागी 'युजभुज० ।५।२।५०। सूत्रेण धिनण् ॥५०॥
णो मृगरमणे ।४।२।५१॥ रजेरुपान्त्यनो णौ मृगाणां रमणेऽर्थे लुक् स्यात् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् ॥५१॥ रञ्जयति रजको वस्त्रमिति-रजति वस्त्रं रजकः, स एवं विवक्षते नाहं रजामि, रज़्यते वस्त्रं स्वयमेव, तद्रज्यमानं प्रयुक्त ॥५१॥
घनि भावकरणे ।४।२॥५२॥ रजेरुपात्यनो भावकरणार्थे घनि लुक् स्यात् । रागः । भावकरण इति किम् ? आधारे रङ्गः ॥५२॥ रञ्जनं रजत्यनेन वेति रागः, भावे तु “भावाकोंः ।५।३।१८। सूत्राद् घत्र ।