SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ( १४८ ) सनीलस्यते-'वञ्चनस० ।४।१।५०। सूत्रेण नीरन्तः । नानन्द्यते-टुनदु समृद्धी इत्युदिद्धातुः ॥४५॥ अञ्चोऽनर्चायाम् ।४।२०४६॥ अनार्थस्यैवाञ्च रुपान्त्यनो विङति परे लुक् स्यात् । उदक्तमुदकं कूपात् । अन_यामिति किम् ? अञ्चिता गुरवः ॥४६॥ पूर्वेण सिद्ध अन यागे-वेति नियमार्थमिदं सूत्रम् । उदक्तम्-उदञ्चति स्मेति 'गत्यर्था० ।५।१।११। सूत्रात् क्तः । अञ्चिताः-अञ्च्यते स्म इति 'लुभ्यश्च ० ।४।४।४४i सूत्रादिट् ॥३६॥ लङ्गिकम्प्योरुपतापाङ्गविकृत्योः ।४।२४७। अनयोरुपान्त्यनो यथासङ्ख्यमुपतापे ऽङ्गविकारे चार्थे क्ङिति परे लुक् स्यात् । विलगितः, विकपितः। उपतापाङ्ग-विकृत्योरिति किम् ? विलङ्गितः, विकम्पितः ॥४७॥ लङ्गिकम्प्योरुदित्त्वात्पूर्वेणाप्राप्ते वचनम् । द्विवचनं ङितीत्यनेन यथासङ्घयनिवृत्त्यर्थम् । उख नखेति दण्डकधातौ लगुधातुः । विलगितः= रोगादिनोपतापित इत्यर्थः । विलङ्गितः-विलङ्गति स्म केनचिदङ्गेन हीन इत्यर्थः । कपुङ चलने । विकम्पितः-विकम्पते स्म, मनसि कम्पितः, चित्ते भीत इत्यर्थः नाङ्गविकृत्यर्थः ॥४७॥ भाजेनौं वा ।४।२।४८॥ भजेरुपान्त्यनो नो परे लुग्वा स्यात् । अभाजि, अभाजि ॥४८॥ अभाजि-भावकर्मणोः ।३।४।६८। सूत्रात् त्रिच ॥४८॥
SR No.002228
Book TitleSiddh Hemchandra Vyakaranam Part 02
Original Sutra AuthorN/A
AuthorDarshanratnavijay, Vimalratnavijay
PublisherJain Shravika Sangh
Publication Year
Total Pages476
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy