________________
( १४७ )
भस्योत् स्यात् । यद्वा नन्वत्र पूर्वसूत्रात् स्वरे इत्यनुवर्त्यं ततश्च परोक्षाद्यतन्योः स्वरे परे इति व्याख्याने स्वयमेव वकारान्तत्वं लप्स्यते किं वग्रहणेन ? उच्यते यदि स्वरोऽनुवर्त्यते तदोत्तरसूत्रे ऽनुवर्तमानो दुर्निवारः स्यात्तथा सति स्रस्तः इत्यादौ "नो व्यञ्जनस्या० |४| २|४५ | सूत्रात् नलोपो न स्यात्, अत एव 'गमहन० ' | ४|२| ४४ | सूत्रे स्वरग्रहणं कृतम् ||४३||
गमहनजनखनधसः स्वरेऽनङि ङिति लुक् |४| २|४४ ॥ एषामुपान्त्यस्यावर्जे स्वरादौ क्ङिति लुक् स्यात् । जग्मुः, जघ्नुः जज्ञ े, चख्नुः, जक्षुः । स्वर इति किम् ? गम्यते । अनङीति किम् ? अगमत् । क्ङितीति किम् ? गमनम् ॥४४॥
नैचि प्रादुर्भावे इति दैवादिको जन् गृह्यते । जनेरात्मनेपदित्वात् जज्ञ े इति प्रयोगः । जज्ञतुः जज्ञः प्रयोगौ नास्मन्मते किन्तु एतौ वैदिको प्रयोगौ । पाणिनीयास्तु जुहोत्यादौ 'जन जनने' इति परस्मैपदिनं वैदिकं पठन्ति । जक्ष :-घस्लृ अदने घसो' द्वित्वम्, 'द्वितीयतुर्ययोः पूर्वी | ४|१|४२ | सूत्रात्पूर्वस्य घस्य गः, 'गहोर्ज : | ४ | १ |४०| सूत्रेण गस्य जः, 'गमजन० ४। २ । ४४ । सूत्रेणोपान्त्याकारलोपः 'अघोषे प्रथमो० १ | ३ |५० | सूत्रात् घस्य कः, 'घस्वसः | २|३|३६| सूत्रेण सस्य ष: । अथवा अदं भक्षणे - परीक्षा 'परोक्षायां नवा | ४|४|१८ | सूत्रेण अद: स्थाने घस् आदेशः । “घस्वसः” | २|३ | ३६ | सूत्रं तु अकृतसकारार्थं आदेशस्य तु कृतत्वात् 'नाम्यन्तस्था० |२| ३ |१| सूत्रेण सस्य षकारः । अगमद्- 'लृदिद्युतादि० ३।४।६४।सूत्रेणङ् ।।४४।।
नो व्यञ्जनस्यानुदितः । ४।२।४५।
व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नः क्ङिति परे लुक् स्यात् । त्रस्तः, सनीस्रस्यते । व्यञ्जनस्येति किम् ? नीयते 1 अनुदित इति किम् ? नानन्द्यते ॥ ४५ ॥