________________
( १४६ )
तत्प्रत्ययविज्ञानात् दोषणं दुट् क्विप-दुषमाचष्टे-दुषयति इत्यत्र न भवति ॥४०॥
चित्ते वा ।४।२।४०॥ चित्तकर्तृकस्य दुणेरुपान्त्यस्य णौ परे ऊद् वा स्यात् मनो दूष- . यति, मनो दोषयति मैत्रः ॥४०॥ मनो दूष्यतितन्मत्रः प्रयुक्त । चित्तसहचारित्वात्प्रज्ञाया अपि ग्रहणात् प्रज्ञा .. दूषयति, दोषयतीत्यत्रापि विकल्पः ॥४०॥
गोहः स्वरे॥४२॥४१॥ कृतगुणस्य गुहेः स्वरादावुपान्त्यस्योत्स्यात् । निगृहति । गोह इति किम् ? निजुगुहुः ॥४१॥ गुहाग् संवरणे । निजुगृहः-'इन्ध्यसंयोगात्० ।४।३।२१। सूत्रेणावित्परोक्षायाः किद्वद्भावाद् गुणाभावः ॥४१॥
भुवो वः परोक्षाद्यतन्योः ।४।२।४३॥ भुवो वन्तस्योपान्त्यस्य परोक्षाद्यतन्योरुत्स्यात् । बभूव, अभूवन् । व इति किम् ? बभूवान्, अभूत् ॥४३॥ वृद्धिगुणोवादेशेषु कृतेषे भुवो वकारान्तत्वम् । बभूव–'भूस्वपोग्दुतो' ।४।१।७०। सूत्रेण द्वित्वे पूर्वस्याकारः । अभूदन्-अद्यतनी अन्, सिच्, अट्, 'पिबैति० ।४।३।६६। सूत्रात् सिच्लोपः, 'धातोरिवर्णो० ।२।४।५०। सूत्रेण भुवः ऊकारस्थाने उ: आदेशः, उवादेशे कृते 'भुवो वः० ।।।२।४३। सूत्रेण उकारस्य ऊः आदेशः । बभूवान-वसौ परोक्षायां 'उवर्णात० ।४।४।५८। सूत्रादिडभावः । व इति कथनाभावे उपान्त्यस्येत्यधिकाराद्