________________
( १४५ )
उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋः स्यात् । अवीवृतत। अववर्त्तत् । अचीकृतत् । अचिकीर्तत् ॥३७॥ "उपान्त्यस्या०' ४॥२॥३५॥ सूत्रात् उपान्यस्येत्यनुवृत्तित्वात् उपान्त्य ऋवर्णो ग्राह्यः । अन्यथा यदि तत्र सूत्रोउपान्त्यस्येत्यगृहीतं स्यात्तदा येन नाव्यवधानमिति न्यायेनैव तत्र सेत्स्यति परन्त्वत्र अन्त्यस्यापि ऋकारस्य ऋः स्यात् । अवीवृतदिति-ऋकारस्यापि ऋत्करणादन गुणो बाध्यते । ननु वर्णग्रहणं कथम्, 'ऋतः ‘इत्येव सूत्यताम् ? यद्यवं क्रियते तदाऽ चीकृतदित्यवं प्रयोगो न निष्पद्यत । ह्रस्वाधिकारेणैव सिद्ध ऋत्करणमचीकृतदित्यत्र गुणनिषेधार्थम् । न च ह्रस्वकरणसामर्थ्याद् गुणो न भविष्यतीति वात्यं गुणकरणे ह्रस्वस्य चरितार्थत्वात् । अचिकीर्तत्-'कृतः कीत्तिः ।४।२।११२ इति ॥३७॥
जियतेरिः ।४।२॥३८॥ घ्र उपान्त्यस्य ङपरे णो इर्वा स्यात् । अजिघ्रिपत्, अजिघ्रपत् ॥३८॥ तिन्निर्देशो यङ्लुब्निवृत्त्यर्थः ॥३८॥
तिष्ठतेः।४।२।३६॥ स्थ उपान्त्यस्य ङपरे णौ इः स्यात् । अतिष्ठिपत् ॥३६॥ तिन्निर्देशो यङ्लुन्निवृत्त्यर्थः । योगविभागः नित्यार्थः ॥३॥
ऊद् दुषो णौ ।४।२।४०॥ दुषेरुपान्त्यस्य ङपरे णौ ऊत्स्यात् । दूषयति ॥४०॥ . पुनर्णिग्रहणं ङनिवृत्त्यर्थम् । दुष्यन्तं प्रयुक्त-दूषयति । धातोः स्वरूपग्रहणे