________________
( १४३ )
।५।२१।४७। सूत्रौण मन् । छत्री छादयतीति छां छत्री वा धर्मवारणम् । डिति वचनादुणादिको हस्वो न भवति यथा छात्रः । क्विपि उपच्छत् ॥३३॥
एकोपसर्गस्य च घे।४।२।३४।
एकोपसर्गस्यानुपसर्गस्य च छर्घपरे णौ ह्रस्वः स्यात् । प्रच्छदः । छदः । एकोपसर्गस्य चेति ? समुपच्छादः ॥३४॥ प्रच्छाद्यतेऽनेन प्रच्छदः, छाद्यतेऽनेन=छद:-“पुन्नाम्नि घः ।५।३।१३० सूत्रात् घप्रत्ययः ॥३४॥
उपान्त्यस्यासमानलोपिशास्वृदितो हुँ ।४।२॥३५॥ समानलोपिशास्वृदिद्वर्जस्य धातोरुपान्त्यस्य ऊपरे जौह स्वः स्यात् । अपीपचत् । भाववानटिटत् । असमानलोपिशास्वृदित इति किम् ।अत्यरराजत् । अशशासत् । मा भवानोणिणत्।३५। कृताकृतप्रसाङ्गित्वं नित्यत्वम् । अत्र नित्यत्वं द्विवर्चनस्य । नित्यमपिद्विर्वचनं बाधित्वा प्रागेव द्वस्वो भवति ओणऋदित्करणज्ञापकात । मा भवानटिटदित्यत्र ह्रस्वत्वे कृतेऽकृतेऽपि द्वित्वं प्राप्नोतीतिनित्यम् । ह्रस्वस्तु द्वित्वे कृतेन प्राप्नोतीयनित्यः । न केवलं द्विवचनं बाधित्वा प्रागेव हस्वः अपित 'प्राक्त स्वरे स्वरविधः' इत्यपि बाधित्वा । प्राग द्वित्वे कृते तु अटिटदित्यनाकारस्य हस्वो न स्यात् । अत्र ओणधातोः ऋदित्करणं ज्ञापकम् । ऋदित्करणं हि ‘मा भवानोणिणत्' इत्यत्र ऋदित्वात् 'उपान्त्यह्रस्वत्वप्रतिषेधः' स्यादित्येवमर्थं क्रियते । यदि चात्र 'ओणिणदित्यत्र नित्यत्वात्प्रागेव द्वितीयावयवस्य द्वित्वं स्यातदाऽनुपान्त्यत्वादेव ह्रस्वस्याप्राप्तिरिति किं ह्रस्वनिवृत्त्यर्थेन ऋदित्करणेन ? अत्यरराजत-राजानमतिक्रान्तः अतिराजः, अतिक्रान्तोः राजानं वा 'राजन्सखे:' ।७३।१०६। सूत्रेण अट्समासान्तः, 'नोऽपदस्य तद्धिते' ।७।४।६१। सूत्रात् नस्य लोपः ।