________________
( १४२
)
एवास्ति दीर्घायं वचनम् कृतम् । णित्करणाद् भ्वादिकस्य ग्रहणं न भवति । न चादन्तस्य चहणः भ्वादिकस्य च चहेः सर्वमेव सेत्स्यति किमर्थमेतद् वचनमिति वाच्यम् सत्रं विना चाहिष्यते इति न सिध्यति तथाहिभ्वादेः स्वरान्तत्वाभावात् 'स्वर० ।३।४।६६। सूत्रेण निट् नायाति । चुरादिचहणस्त अदन्तत्वात त्रिटि सत्यपि वद्धिप्राप्ता। नन णिगि सति भ्वादेः सिध्यतीति चेत्तहि अर्थभेदः स्यादतः सूत्रं कृतम् ।।३१॥
ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य
वा ।४।२।३२ एषामनुपसर्गाणां णौ ह्रस्वो वा स्यात् । ज्वलयति । ज्वालयति । ह्वलयति । ह्वालयति । ह्मलयति । ह्यालयति । ग्लपयति । ग्लापयति । स्नपति । स्नापयति । वनयति । वानयति । वमयति । वामयति । नमयति । नामयति । अनुपसर्गस्येति किम्। प्रज्वलयति । प्रह्वलयति । प्रह्मलयति । प्रग्लापयति । प्रस्नापयति । प्रवनयति । प्रवमयति । प्रणमयति ॥३२॥ ग्लास्नोरप्राप्ते शेषाणां तु प्राप्ते विभाषा । अनेन वा ह्रस्वविधानात् अज्वालि, अज्वलि । ज्वालं ज्वालम, ज्वलंज्वलम् इत्यादि षु दीर्घ विकल्पः सिद्ध एवेति ञिणम्परे इति नानूद्यते ॥३२॥
छदेरिस्मन्त्रट-क्वौ ।४।२॥३३॥ छदेरिस्मन्त्रदिपरे गौ ह्रस्वः स्यात् । छदिः छद्मः, छत्री, उपच्चत् ॥३३॥ छदण् संवरणे 'चुरादिभ्यो णिच् ।३।४।१७। सूत्रेण णिनि छादयतीति 'रूचि० । उणादि० ९८९ इत्युणादिसूण इस् । छद्म इत्यत्र ‘मन्वन्०