________________
( १४१ )
'यमू उपरमे भ्वादि।, यमण परिवेषणे चुरादिः' धातुद्वयमप्यत्र ग्राह्यमत एवोक्त णिचि अणिचि चेति । चकारोऽ णिचि चेत्यस्यानुकर्षणार्थः। णाविति सिद्ध अस्य णिचि चेति वचनान्येषां णिचि न भवति । यामयत्यतिथिमूपरिवेषण क्रियया तं व्याप्नोतीत्यर्थः । परिवेषणमिह भोजनविषयि सूर्यादिवेष्टनं च गृह्यते तेन यामयति चन्द्रमसमित्याद्यपि ॥२६॥
मारणतोषणनिशाने ज्ञश्च ।४।२॥३०॥ एष्वर्थेषु ज्ञो णिचि अणिचि च णौ ह्रस्वः स्यात् भिणम्परे तु वा दीर्घः । संज्ञपयति पशुम् । विज्ञपयति राजानम् । प्रज्ञपयति शस्त्रम् । अंज्ञापि, अज्ञपि, ज्ञापंज्ञापम्, ज्ञपंज्ञपम् ॥३०॥ चकारो णिचि चेत्यस्यानुकर्षणार्थः । धातोराकर्षणे फलाभावात्प्रकृतेरपि स्थितः चकारः प्रत्ययमाकर्षति इदमपि स्वरूपाख्यानमेव अधिकारायातमेव चकारेणानुमीयते अन्यथा चानुकृष्टं नानुवर्तत । ज्ञाधातु 'ज्ञांश् अवबोधने इति क्रचादि: ज्ञाण मारणादिनियोजनेषु इति चुरादि: द्वयमप्यत्र ज्ञातव्यम् । यदि चुरादिस्तदा 'चुरादिभ्यो णिच।।३।४।१७। भवति, यदि च क्रयादिस्तदा 'अणिच्' इति विशेषः । इह 'यमोऽपरिवेषणे णिचि च, १४।२।२९। इति पूर्वसूत्रे णिचि अणिचि च णौ रूपसाम्ये प्यर्थ भेदः । ज्ञाग्धातोः प्रथममेव मारणमिति धात्वर्थः स्वार्थः । ज्ञांश धातोस्तु प्रयोक्त - व्यापारे मारणमर्थः प्रथमं मरणमर्थ इति विशेषः । संज्ञपयति–'आदेशादागमः' इति न्यायात् ह्रस्वात्प्रागेव प्वागमः । प्रज्ञपयति निशानं 'तीक्ष्णीकरणमित्यर्थ ।।३०॥ चहणः शाठ्थे ।४।२।३१। चहेश्चुरादेः शाठ्यार्थस्य णिचि णौ ह्रस्वः स्यात् अिणम्परे तु वा दीर्घः । चहयति । अचाहि । अचहि । चाहंचाहम् । चहचहम् । शाठ्य इति किम् । अचहि ॥३१॥ चहण कल्कने इति अदन्तो धातुः, अदन्तत्वात् दीर्घोऽप्राप्तः ह्रस्वः सिद्ध