________________
( १४० )
'णिति' ।४।३।५०। सूत्रेण वृद्धिः, आ, । अद्यतनीत, 'भावकर्मणोः ।३।४।६८। सूत्रेण त्रिचत, लोपश्च । 'ख्णं चाभी० ।५।४।४६। सूत्रेण खणम् । 'भृशाभी० ७४।७३। सूत्रेण सर्वत्र द्वित्वम् । ख्णमुदाहरणे प्रथमासिः अव्ययस्य' ।३।२।७। सूणेण सेर्लोपः ॥२६॥
पर्यपात् स्खदः ।४।२।२७। आभ्यामेव परस्य स्खदेो हस्वः स्यात भिणम्परे तु वा दीर्घः । परिस्खदयति । पर्यस्खादि। पर्यस्खदि । परिस्खादं परिस्खादम्। परिस्खदं परिस्खदम् । अपस्खदयति । अपास्खादि । अपास्खदि । अपस्खादमपस्खादम् । अपस्खदमपस्खदम् । पर्यपादिति किम् । प्रस्खादयति ॥२७॥ . स्खघटादिपाठेन सिद्वे आभ्यामेवेति नियमार्थं वचनम् तेनान्योपसर्गपूर्वस्य न भवति । विपरीतनियमस्तु न भवति ‘एकोपसर्गस्य'० ॥४॥२॥३४। सूत्रेण परिच्छद इत्यत्रापि ह्रस्वविधानसामर्थ्यात् ॥२७॥
शमोऽ दर्शने ।४।२।२८।
.
अदर्शनार्थस्य शमो ह्रस्वः स्थात् ञिणम्परे तु वा दीर्घः । शमयति रोगम् । ॐ शामि । अशमि । शामंशांमम् । शमंशमम् । अदर्शन इति किम् । निशामयति रूपम् ॥२८॥ दर्शन एव केचिदिछन्ति तेषां मते उदाहरणप्रत्युदाहरणयोर्वैषम्यम् ।।२८।। यमोऽपरिवेषणे णिचि च ।४।।२८। अपरिवेषणार्थस्य यमो णिचि अणिचि च णौ ह्रस्वः स्यात् । . ञिणम्परे तु वा दीर्घः । यमयति । अयामि । अयमि । यामयामम् । ययंयमम् । अपरिवेषण इति किम् । यामयत्यतिथिम् ॥२६॥