________________
( १३६ )
कगेवनूजनैज़ षक्नस्रञ्जः ।४।२।२५॥ एषां गौ ह्रस्वः स्यात् ञिणम्परे तु वा णौ दीर्घः । कगयति । अकागि। अकगि। कागकागम् । कगंकगम् । उपवनयति । उपावानि । उपावनि । उपवानमुपवानम् । उपवनमुपवनम् । जनयति । अजानि । अजनि । जानजानम् । जनंजनम् । जरयति । अजारि । अजरि। जारंजारम् । जरंजरम् । क्नसयति। अक्नासि। अक्नसि । कनासंक्नासन् । क्नसक्नसम् । रजयति । अराजि । अरजि । राजराजम् रजरजम् ॥२५॥
घटादीनां धातुपाठे पठितार्थानामेव ग्रहणमर्थान्तरे तु उद्घाटयतीत्यादौ न ह्रस्वविधि: यतः उपसगैः प्रायेणार्थान्तरं भवति । पूर्वेण पृथग्योगाद् कगादीनां त्वर्थविशेषो नोपादीयते । कगे इति सौत्रौ धातुः एकारश्चैदित्कार्यार्थः तेन अकगीदित्यत्र 'व्यञ्जनादेर्वा० ।४।३।४७। सूत्रेण प्राप्तवृद्धः 'न श्विजागृ०' ।४।३।४६। सूत्रेणैदित्वात्प्रतिषेधः । 'वनू' इति ऊकारनिर्देशात 'वयि याचने' इति धातुर्गाह्यः 'वन संभक्तौ' इत्यस्य न ह्रस्वदीर्घविधिः रजयति–'रजी रागे इति भ्वादिः रञ्जींच रागे दिवादिर्वा, णिग् ‘णौ मगरमणे' ।४।२।५१। सूत्रात् नलोपः, नलोपे वचनस्य चरितार्थत्वात् नलोपाभावे 'अरञ्जि, रज रञ्जम् इत्यत्र वा दीर्घो न भवति ॥२५॥
अमोऽकम्यमिचमः ।४।२।२६। कम्यमिचमिवर्जस्यामन्तस्य गौ हस्वः स्यात् ञिणम्परे तु वा णौ दीर्घः । रमयति । अरामि । अरमि । रामरामम् । अकम्यमिचम इति किम् । कामयते । अकामि । कामकामम् । आचामयति ॥२६॥ रमयति, अरामि, अरमि, रामरामम्, रमरमम्-उदाहरणेषु सर्वत्र णिग्