________________
( १३८ )
णौ स्फायः स्काव् स्यात् । स्फावयति ॥२२॥ स्फाय वृद्धौ । अभेदनिर्देशाभावेऽन्त्यस्यादेश: स्यात् ॥२२॥
शदिरगतौ शात् ।४।२।२३। शदिरगत्यर्थे णौ शात्स्यात् । पुष्पाणि शातयति । अगताविति किम्-गाः शादयति ॥२३॥ शादयति गोपालो गा गमयतीत्यर्थः ॥२३॥
-
घटादेह स्वो दीर्घस्तु वा भिणम्परे ।४।२।२४॥ घटादीनां णौ हस्वः स्यात् । जिणम्परे तु णौ वा दोघः । घटयति, अघाटि, अघटि, घाटं घाटम्, घटं घटम् । व्यथयति, अव्याथि, अव्यथि, व्याथं व्याथम्, व्यथं व्यथम् ॥२४॥ भ्वादिपर्यन्ते घटादिगणः । सूत्रे घटादयः पठितार्था एव ह्रस्वदीर्घकार्ये गृह्यन्ते, अर्थान्तरे तु घटादीनां न ह्रस्वविधिः, उपसर्गः प्रायेणार्थान्तरं भवति यथा उद्घाटयति, अत्र न ह्रस्वः । घटिषु चेष्टायाम् घटमानं प्रयुक्त 'प्रयोक्तृव्यापारे णिग् ।३।४।२०। इत्यनेन णिग् 'ञ्णिति' ।४।३।५० सुत्रेण वृद्धिः अघाटि, अघटीयत्र णिग्, अद्यतनीत 'भावकर्मणोः ।३।४।६८ सूत्रेण जिच्, अद्यतनीतकारलोपश्च । अभीक्ष्णं घटनं पूर्वम् इति, घाटंघाटम् “रुणम् चाभीक्ष्ण्ये' ।५।४।४८ सूत्रेण रुणम्प्रत्ययः णिपूर्वः, प्रकृतसूत्रेण विकल्पेन हृस्वः । 'भृशाभीक्ष्या० ७४॥४३॥ सूत्रेण द्वित्वम् । ननु णिगो लोपस्य 'स्थानिवद्भावेन घटादीनां व्यवहितत्वात् ञिणम्परे णो न स्याद्धस्वविकल्पः इति नाऽऽशङ्कनीयं दीर्घविधि प्रति 'न सन्धिo ७।४।१११। सूत्रीण स्थानिवद्भावनिषेधात्। क्षडिजदक्ष्यादी घटादिपाठलादनुपान्त्यस्यापि · दीर्घो भवति ॥२४॥