________________
( १३७ )
उपवाजयति-वांक् गतिगन्धनयोरित्यस्य न तु ओवै इत्यस्य विधूनने वृत्त्यभावात् । आवापयति-शोषयतीत्यर्थः । ओवै शोषणे 'आत्सन्ध्यक्षरस्य ।४।२।१ इति । वजिनैव सिद्ध वाते रूपान्तरनिवृत्त्यर्थं वचनम् ॥१६।।
पाशाछासावेव्याह्वो यः ।४।२।२०। एषां णौ योऽन्तः स्यातः । पाययति, शाययति, अवच्छाययति, अवसाययति, वाययति, व्यायति, ह्वाययति ॥२०॥ पोरपवादो योगः । पां पाने, मैं शोषणे पाययति । पातेस्तु लकार उक्तः । शोच शाययति । छोंच छाययति । सो सेवा अवसाययति । वेंग वाययति । वे इत्यनात्वेन निर्देशो बांक् गतिगन्धनयोः, ओवें शोषणे इत्यनयोनिवृत्यर्थः । व्यंग्-व्याययति, हग ह्वाययति । एषां कृतात्त्वानां ग्रहणादिह लाक्षणिकस्यापि ग्रहणं भवति तेन क्राययतीत्यादि सिद्धम् ॥२०॥
अतिरीव्लीह्रोक्नूयिक्ष्माय्यातां पुः ।४।२।२१॥ एषामादन्तानां च णौ पुरन्तः स्यात् । अर्प यति, रेपयति, ब्लेपयति, ह पयति, क्नोपयति, मापयति, दापयति, सत्यापयति ॥२१॥ अत्तीति-'ऋगतो' 'ऋ प्रापणे च' इत्यनयोग्रहणं 'सामान्यनिर्देशात् । तिनिनिर्देशो यङ्लुब्निवृत्त्यर्थः । रीति-रीङ्च स्रवणे, रीश् गतिरेषणयोः इति द्वयोरपि ग्रहणम् । व्लींश् वरणे'व्लेपयति । ह्रींक लज्जायाम् ह्र पयति । क्नयैङ् शब्दोन्दनयोः क्नोपयति 'य्वोः प्वयव्यञ्जने लुक ।४।४।२१ इति यस्य लुक् । क्ष्मायैङ् विधूनने-क्ष्मापयति । बहुवचनं व्याप्त्यर्थम् तेन नाम्नोपि सत्यमाचष्टे सत्यापयति 'सत्यार्थवेदस्याः ।३।४।४४ इत्याकारः ॥२१॥
स्काय स्फा ।४।२।२२।