________________
( १३६ )
लारूपस्य णौ स्नेहद्रव्ये गम्ये लोऽन्तो वा स्यात् । घृतं विलालयति, विलापयति वा । स्नेहद्रव्य इत्येव जटाभिरालापयते
॥१६॥
जटाभिरालापयते परैः स्वं पूजयतीत्यर्थः ली लिनोऽर्चा ० | ३ | ३|६० इत्यनेनात्त्वमात्मनेपदं च ॥ १६ ॥
पाते: ४ ।२।१७ |
पातेर्णी लोsन्नः स्यात् । पालयति ॥ १७॥
पृथग्योगाद् नवेति निवृत्तम् । 'पातेः' इत्यत्र तिब्निर्देशो धात्वन्तर निवृत्यर्थः, तेन पांक रक्षणे इति पैं अदादिको गृह्यते, पां' पाने, पैं शोषेण इति धातुद्वयं निवार्यते । यतोऽनयोः पाययति इति प्रयोगः । तिनिर्देशो यङ्लुब्निवृत्त्यर्थश्च । पलण रक्षणे इति चुरादिकेनैव सिद्धे पातेर्योन्तः स्यादिति वचनम् ||१७||
धूप्रीगोर्न: ।४।२।१८
धू गुप्रीगोण नोऽन्तः स्यात् । धूनयतिः प्रीणयति । १८ ।
धगट्कम्पने, धूगश् कम्पने, धूण कम्पने इति त्रयोऽप्यत्र ज्ञातव्याः । 'प्रींग्श् तृप्तिकान्त्योः, प्रीण तर्पणे' । धातुद्वयं प्रीगिलेन गृह्यते । अनुबन्धनिर्देशो धवतिप्रीयतिनिवृत्त्यर्थः, यङ्लुब्निवृत्त्यर्थश्च ॥ १८ ॥
वो विधूनेन: |४| २|१६|
वा इत्यस्य विधूननेऽर्थे णौ जोऽन्तः स्यात् । पक्षेणोपवाजयति । विधूनन इति किम् ? उच्चैः केशानावायति ॥१६ः