________________
( १३५ )
गर्भाधानार्थस्य वियो णौ वा आत्स्यात् । पुरो वातो गाः स्वापयति, प्रवाययति ॥ १३ ॥
प्रजनः गर्भग्रहणम् । 'भावाकर्तोः | ५|३|१८ | इतिघत्र 'नजनबधः ' ४ | ३ |५४ | सूत्रेण वृद्धिर्न भवति । वातेः प्रजने वृत्तिर्नास्तीत्यारम्भः । पुरो वातो गाः प्रवापयति, प्रवाययति-गभं ग्राहयतीत्यर्थः । पूर्वस्या दिश आगतः 'पूर्वापरा०' | ७|३|११५ । इत्यस् । वातः = पवनः । गो+ द्वितीयाशस्, 'आ अम्शसोऽ ता० | १|४/७५ | इत्याकारः । वीं "प्रजनकान्त्यसनखादने च ॥१३॥
-
रूहः पः।४।२।१४।
रुहेण प् वा स्यात रोपयति, रोहयति वा तरूम् ॥१४॥
रोह्त्यर्थं रूप्यतिर्न दृश्यते इति योगारम्भः ||१४||
लियो नोऽन्तः स्नेहद्रवे ।४।२।१५।
लियः स्नेहद्रव्ये गम्ये णौ नोन्तो वा स्यात् । घृतं विलीनयति, विलाययति । स्नेहद्रव्य इति किम् ? अयो विलाययति ॥ १५ ॥
लीड्च् श्लेषणे, लीरा श्लेषणे, लींण् द्रवीकरणे इति त्रयाणामपि सामान्येन ग्रहणम् । घृतं विलीनयति, घृतं विलाययति - अत्र लीधातोर्णिग वृद्धिरायादेशः । लिय ई ली इति ईकार प्रश्लेषाद् ईकारान्त स्यैव नोन्तो भबति । 'लीलिनोर्वा |४| २|६| सूत्रेण विकल्पेनात्त्वविधानं कृतात्त्वस्य तु 'लो लः |४|२| १६ | इति लोऽन्तः 'अतिरी० | ४||२१| इति पोन्तश्च भवति । तदा घतं विलीनयति, विलाययति, विलालयति, विलापयतीति रूपचतुष्टयम्
119211
लोलः ।४।२।१६।
1