________________
( १३४ )
णौ क्री-जीङः ।४।२।१०॥ एषां णौ आत्स्यात् । क्रापयति, जापयति, अध्यापयति ॥१०॥ डुक्रींग्श् द्रव्यविनिमये (क्रयादिः), जि अभिभवे (भ्वादिः) इंक अध्ययने अदादिः, अस्याधिनाऽवश्यंभावी योगः। सर्वत्र 'अतिरीब्ली० ।४।२।२१। सूत्रेण पोन्तः ॥१०॥
सिध्यतेरज्ञाने ।४।२।११॥ अज्ञानार्थस्य सिध्यतेो स्वरस्यात् स्यात् । मन्त्रं साधयति । अज्ञान इति किम् ? तपस्तापसं सेधयति ॥११॥ सध्यक्षरप्रस्तावात् 'स्वरस्य' इति लभ्यते, अन्यथा 'षष्ठ्याऽन्त्यस्य ।७।४।१०६। सूत्रात् धकारस्यैव स्यात् । सिध्यतेरित्यत्र यकारनिर्देशात् विधूच संराद्धाविति दिवादिगुह्यते षिध गत्यामिति भ्वादेग्रहणं न भवति । सेधयति-सिध्यति जानीते तापसः ज्ञानविशेषमासादयति, तपः तं तापसं प्रयुक्त तप एवैन सेधयति अनुभवविशेषमु-त्पादयति इत्यर्थः । अनुभवः साक्षात्कारः स च ज्ञानमेव ॥११॥
चिस्फुरनवा ।४।२।१२। . चिस्फुरोणी स्वरस्याद् वा स्यात् । चापयति, चाययति, स्फारयति, स्फोरयति ॥१२॥ 'स्फरत् स्फुरणे' धातुनैव सिद्ध स्फुरेरात्त्ववचनं प्यन्तात्सनि पुस्फारयिषतीत्येवमर्थम् ॥१२॥
वियः प्रजने ।४।।१३॥